Saturday, December 3, 2016

आनन्दमठः -- पुस्तकावलोकनम्

संस्कृताध्ययने, सम्भाषणांशान् विहाय अन्यत् किं कुर्याम इति चिन्ता आयाति स्म केभ्यश्चित् मासेभ्यः प्राक् । तस्मिन् समये, 'सररस्वती सेवा' नाम्नः कश्चन प्रकाशन-कार्यस्य विशये ज्ञातवान् । अस्य कार्यस्य उद्देश्यः आसीत् बहूनाम् पुस्तकानाम् संस्कृतानुवादः । अयं तु उत्तमः उद्देश्यः । बहुकालाय वयं वदन्तः स्मः यत् पुस्तकानां च विचाराणां संस्कृतानुवादः भवेत् । ज्येष्ठाः वदन्ति यत् संस्कृतस्य ज्ञानराशिः अस्माभिः अधिगन्तव्यः इति । एतत् तु सत्यम् यत् प्रायः सप्तदशतम-शताब्देः पूर्वं भारतस्य गणितज्ञाः यूरोपीय गणितनज्ञानाम् अपेक्षया उत्कृष्टान् आविष्कारान् कृतवन्तः। 'Cognitive neuroscience' इत्यस्मिन् क्षेत्रे इदानीम् अपि भारतीय ज्ञानराशेः परम-मुख्यत्वम् अस्ति। किन्तु अद्यतन विज्ञानम् संस्कृतग्रन्थेभ्यः बहुदूरम् अगच्छत्। एकम् एव उदाहरणम् दास्यामि। 'परमाणुः' इति पदार्थः प्रतिपादितः कणाड-ऋषिणा। अयं तु सत्यं यत् लोकस्य सर्वेपि पदार्थाः परमाणुभिः रचिताः। किन्तु विंशतितमे शताब्दौ वयं परमाणोः विशये बहु किमपि ज्ञातवन्तः। परमाणोः विच्छेदनम् कृत्वा सूक्ष्मस्तरे तस्य आकारम् अभिज्ञातवन्तः। एतत् ज्ञानम् तु विंशतितमशताब्देः पूर्वे विरचिते कस्मिन् अपि ग्रन्थे न उपलभ्यते। यदा वैज्ञानिकविचाराणम् अनुवादः भवति, तदैव भाषा आधुनिकप्रयोगाय उचिता भवति। आङ्ग्लभाषायाम् 'fossilized' इति शब्दः अस्याः परिस्थितेः वर्णनाय उचितः। इयं परिस्थितिः न केवलम् संस्कृतभाषायाः, किन्तु सर्वासाम् भारतीयभाषाणम्। एकया रीत्या अस्याः स्थितेः दूरी करणाय एव 'सरस्वती सेवा' कार्यः परिकल्पितः स्यात्।

१९५२ हिन्दी चलनचित्रम्
वयं 'आनन्दमठः' इति वङ्गभाषायाः सुप्रसिद्धं ग्रन्थम् अपठम्। बङ्किम्चन्द्र चट्टोपाध्यायेन रचितः अयं उपन्यासः शिवचरणशर्मावर्येण अनुवादितः। १७७८ वर्षस्य वङ्गप्रदेशस्य अकाल-समयात् उपन्यासः प्रारभते। महेन्द्रः इति कश्चन धनिकः स्वग्रामं त्यक्त्वा पत्नीं, क्रोडस्थां पुत्रीं च नीत्वा अन्यत्र गच्छति। यद्यपि सः धनिकः अस्ति, तथापि ग्रामे किमपि अवशिष्टं नास्ति इति कारणेन पुत्र्यै दुग्धम् अपि दातुम् न शक्नोति। मार्गे कुटुम्बस्य वियोगः भवति। जनत्रयमपि कयाचित् रीत्या संन्यासीजनानाम् सकाशे आगच्छन्ति। किन्तु वियोगानन्तरम् ते अन्येषाम् स्थितिम् न जानन्ति। महेन्द्रः संन्यासीनाम् गुरुणा सत्यानन्देन सह मिलति। सत्यानन्दस्य वनस्थितस्य मठस्य नाम एव आनन्दमठः। सत्यानन्दः महेन्द्रं विज्ञापयति यत् संन्यासीनां एका विशाला सेना यवनजनान् (इस्लामीय जनान्) विरुध्य योद्धुं  सज्जतां कुर्वन् अस्ति इति। यवनजनाः आङ्ग्लवराकैः सह मिलित्वा भारतीयेभ्यः अधीनत्वं दत्तवन्तः, एन कारणेन देशस्य इयं दुःस्थितिः प्रासृता। महेन्द्रः संन्यासीनाम् व्रतं स्वीकतरोति, अपि च तस्य ग्रामे भुशुण्डीनां निर्माणं कर्तुम् प्रभवति। तस्य ग्रामे एकम् दुर्गम् अपि निर्मापयति। संन्यासीव्रतानुष्ठनं यः करोति, सः कयापि महिलया सह व्यवरहारं नैव कर्तुं अर्हति। किन्तु, संन्यासीनां सेनापतेः (जीवानन्दः) पत्नी, शन्तिः युद्धं कर्तुम् उद्यता भवति। सत्यानन्दः अपि तस्याः पराक्रमम्, बुद्धिम् च दृष्ट्वा ताम् संन्यासदीक्षाम् ददाति। संन्यासी जनाः कथम् मिलित्वा युद्धे विजयम् प्राप्नुवन्ति, नवभारतस्य निर्माणं कथं साधयन्ति इति काथायाः स्थूलावलोकनम्।

कथा अतीव रुचिकरा आसीत्, किन्तु प्रकाशणे बहवोमुद्रणदोषाः। तैः रसभङ्गः अभवत् बहुत्र। एवं स्थिते अपि, अनुमानं कृत्वा अपठम्। सत्यानन्दः महेन्द्रेण सह प्रथमवारमं यदा मिलति, तदा बहु रुचिकरः प्रसङ्गः आयाति। सः महेन्द्रं एकं मन्दिरं प्रति नयति। तत्र सः जगद्धात्र्याः मूर्तिं दर्शयति। भारतमातुः स्वरूपं एतत् एव आसीत्। यः कोपि आगतः तस्य पालनम् पोषणम् च कृतवती। भारतदेशः विश्वगुरुत्वं प्राप्य भूमौ एकस्मिन् विसिष्टे स्थाने उपविष्टः आसीत्। द्वितीयं चित्रं काली मातुः चित्रम् अस्ति। सा कङ्कालिनी, यः कोपि भारते आसीत्, तस्य वधं कृत्वा रक्तं च भुक्तवती। इस्लामीय आक्रमणम्, आङ्ग्लानाम् आक्रमणम् इति असह्यपीडाः अनुभूताः अस्माकम् पूर्वजैः। आङ्ग्लशासनात् पूर्वम् न कदापि एतावत् मात्रेशु आकालाः आसन् यत् वङ्गप्रान्ते तस्मिन् समये आसीत्। वङ्गप्रान्तस्य १/३ जनाः अकालेन भुक्ताः अभवन्। पुस्तके अपि अकालस्य वर्णनम् मनसि दुःखम् अजनयत्। तस्य समयस्य प्रतीकस्य रूपेण काली देव्याः चित्रम् आसीत्। तृतीयं चित्रं नवीनभारतमातुः चित्रम् आसीत्। यदा मतुः सन्तानाः सर्वे मिलित्वा आह्वयन्ति, तदा सा भारतीयानाम् उद्धारम् करिष्यति। उपन्यासे भारतस्य चित्रणं, भातरतनमातुः रूपेण कृतम्। एतत् रूपं भारतीय स्वतन्त्रतासङ्ग्रामे महान्तम् प्रभावम् साधयति स्म। 'वन्दे मातरम्' इति गीतम् अस्मिन् पुस्तके एव चट्टोपाध्ययवर्येण विरचितम्। अस्माकं देशभक्तेः सर्वोत्कृष्टं अभिव्यक्तिः 'वन्दे मातरम्' इति घोषणा। जन्मभूमेः स्वमात्रा सह तुलना नूतनः विशयः तु नास्ति। स्वयं श्रीरामचन्द्रेण कथितम् 'जननी जन्मभूमिस्च स्वर्गात् अपि गरीयसी' इति।


महेन्द्रस्य दीक्षायाः समये सः सत्यानन्दं पृच्छति -- सन्तानाः वैष्णवाः, अपि तु विष्णुः परमोदारः अस्ति। एवं स्थिते सति, सन्तानाः किमर्थं युद्धं कुर्वन्ति? तत्र सत्यानन्दस्य विवरणम् बहु सम्यक् आसीत्। शान्तिः धर्मस्य लक्ष्यम् अस्ति। किन्तु यदि धर्मसंरक्षणाय युद्धस्य आवश्यकता अस्ति, तर्हि योद्धव्यम् एव। महाविष्णुः करुणमयः अस्ति चेत् अपि, सः मधुकैटभरावणकन्सादीनाम् वधाय भूमिम् आगतवान्। तदर्थं चैतन्यस्य वैष्णवधर्मः अपूर्णः इति सत्यानन्दः वदति। करुणाभावना शक्तिशालेः आभूषणम् अस्ति। शक्तिविहीनः यदि 'करुणाभावः एव परमोधर्मः' इति वदति, तर्हि तत् कथनम् तस्य भीरुत्वम् एव प्रकाशयति। अपि च दीक्षायाः समये संन्यासिभिः प्रतिज्ञा स्वीकर्तव्या यत् ते स्वपरिवारं, पत्नीं, अपत्यानि, सर्वं त्यक्त्वा देशस्य कृते एव प्राणार्पणं कुर्युः। यदि व्रतभङ्गोभवति, तर्हि ते आत्महत्याम् कुर्युः। यद्यपि सन्तानाः सज्जनाः देशभक्ताः च आसन्, उपन्यासे बहुत्र व्रतभङ्गाः भवन्ति। सामान्यमानयवान् इव तेषां आचरणं भवति बहुत्र। तेषाम् कामः, लोभः, इन्द्रिय निग्रहणे विफलता अपि च असाधारणा देशभक्तिः, वीरता सर्वं अपि कथायाम् वर्णितम् अस्ति। मम सर्वप्रीयपात्रे सत्यानन्दः, शान्तिः च। भगवतः श्रीकृष्णस्य आचरणम् मनसि निधाय लेखकेन सत्यानन्दस्य पात्रस्य रचना कृता इति भाति। शान्तिः तु असाधारणा महिला अस्ति। सौन्दर्यं, शौर्यं, तीव्रबुद्धिः,देशभक्तिः, सर्वं अस्ति तस्याम्। यदा सत्यानन्दः तस्यै दीक्षां ददाति, तदा ताम् 'नवीनानन्दः' इति नाम ददाति। नवभारतस्य निर्माणाय भारतमातुः रूपं यत् कथायां वर्णितम् अस्ति, तत् शन्तेः चरित्रेण सह स्निग्धसादृश्यं दर्शयति। वन्दे मातरम्!





Sunday, October 2, 2016

devI mAhAtmyam shrnkhalA -- 2


We hope to make this post and annual feature. The first one from last year is here: 
A note on the illustrations: Like last time, bhautikagnya koushik agreed to paint several scenes. The paintings are each 8"x5", a fairly common size for devi mAhAtmyam miniatures back in the day. They are painted in gouache (opaque watercolor) which is the same medium that miniatures were originally painted in (from the 13th century onward). In comparison, the ones painted last year were drawn with colored chalk (pastels) and more than twice the size (9"x12").

The second adhyAya is the beginning of the madhyama charitra. In the beginning of this adhyAya, the devas get defeated by a powerful asura called mahishAsura after a war that spans 100 years. mahishAsura then assumes the post of indra. He also takes up all the powers of the other devas. 
"देवासुरम् अभूत् युद्धं पूर्णम् अब्दशतं पुरा...जित्वा च सकलान् देवान् इन्द्रः अभूत् महिषासुरः" (sandhis are all split)




The devas roam the earth like mortals, then approach brahma, vishnu and shiva for help.
"स्वर्गात् निराकृताः सर्वे तेन देवगणाः भुवि | विचरन्ति यथा मर्त्याः महिषेण दुरात्मना |"

After narrating their miseries, the devas fall at the feet of the supreme three.
"शरणं  च प्रपन्नाः स्मः वधः तस्य विचिन्त्यतां |"



We have mentioned this a few times earlier, but this episode still makes us digress and wonder how these ideas have evolved over centuries. indra who is the all powerful sahasrAkshA, slayer of vritra in the rig veda falls at the feet of shivA. The vedas celebrate life, are full of awe for nature and replete with universal prayers to the elements. Whereas in the purANas, the elements of nature like agni, vAyu, sUrya, etc., are sidelined to non-central roles although they are still venerated. Vedic works such as ghosha shAnti should be taught more and brought back into popular hindu consciousness. The ideals expounded in such works are still being practiced subconsciously by hindus in their celebration of harvest festivals, veneration of rivers, mountains, animals, etc. The earliest forms of worship are nature worship and ancestor worship, and communities that hold on to these rituals and forms of worship (mainly rural and tribal communities) are closer to the vedic form of worship than other communities. With this we get back to the purANa.

From the angered vishnu, brahma, shankara and all the other devas including indra, arose a brilliant light which united in one place
"ततः अतिकोपपूर्णस्य चक्रिणः वदनात् ततः | निश्चक्राम महत्तेजः ब्रह्मणः शङ्करस्य च |
अन्येषां च एव देवानां शक्र-आदीनं शरीरतः | निर्गतं सुमहत्तेजः तत् च ऐक्यं समगच्छत |"
...
From there a woman arose whose brilliance shone in all three worlds. 
"एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा |"



From his shUla, the holder of pinAka (shiva) formed another shUla and gave it to devi. krshna (the black one; vishnu) gave a chakra made out of his own. 
"शूलम् शूलात् विनिष्कृष्य ददौ तस्यै पिनाकधुक् | चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः |

The devas then gave several gifts and weapons to the devi. We list them here for the curious reader. The words in brackets are the terms used in the purANa.
varuna -- conch (shankha)
agni (hutAsana) -- spear (shakti)
vAyu (mAruta) -- bow and two quivers full of arrows (chApa + iShudhI)
indra (amarAdhipa) -- thunderbolt (vajra)
indra (sahasrAkha) -- bell of airAvata
yama (kAla) -- staff (danda)
varuna (ambupati) -- lasso (pAsha)
brahma (prajApati) -- chain of beads and a pot for carrying water (akshamAlA and kamandalu)
sun (divAkara) -- his radiant rays (nija rashmi)
yama (kAla) -- khadga (sword)
sea of milk (ksIroda) -- necklace and clothes that never wear out (amalam hAram, ajaram ambaram)
vishvakarma -- several things (nirmalaH parashuH, kundale, samastAsu angulIshu ratnAni, etc )
sea god -- beautiful lotus
himavAn -- a lion as a vehicle and several precious gems
kubera (dhanAdhipa) -- vessel filled with intoxicating sura
king of snakes (sesha) -- several precious stones and a necklace

After this the devas raised loud slogans wishing victory to devi. These sounds shook the whole world and startled mahishAsura, who remarked thus, "Ah! what is this", and in anger ran towards the sound along with other asuras.
"आह्किमेतत् इति क्रोधात् आभाष्य महिषासुरः |
अभ्यधावत तं शब्दं असेशैः असुरैः वृतः |"

He saw the devi who enveloped all three worlds with her radiance and a terrible battle ensued. The number of warriors and the sizes of armies on the asura side are phenomenally huge. Not only did these ancestors have abstract ideas about huge numbers, they associated those with distances, times, etc. We go over some of those numbers here.

udagra fought with 60,000 chariots --- रथानाम् अयुतैः षड्भिः 
maha hanu fought with 10,000,000 chariots -- अयुतानां सहस्रं 
asiloma fought with 50,000,000 chariots -- पञ्चाशद्भिः नियुतैः 
bashkala 16,000,000 chariots, 1000s of elephants, 1000s of horses -- अयुतानां शतैः षड्भिः , कोट्या च  
bidala 5,000,000,000 chariots -- अयुतानां पञ्चाशद्भिः अयुतैः 

A nice verse to remember powers of 10 till 10^17 is here.
एकं दश शतञ्चै व सहस्रमयुतं तथा |
लक्षं च नियुतं चैव कोतिरर्बुदमेवच |
वृन्दं खर्वोनिखर्वस्च शङ्खःपद्मोच सागरः |
अन्त्यं मध्यं परार्धञ्च दशवृध्या यथाक्रमम् |

So 1 petabyte is 1 अन्त्य-byte :) 

Devi then laid to waste this huge army. Several asuras fought valiantly but were no match for her power. 
She destroyed the armies like it was child's play and there were rivers of blood in the battlefield.
"लीलयैव प्रचिच्छेद निजशस्त्रास्त्र वर्षिणी |"
...
"शोणितौघा महानद्यः सद्यः तत्र प्रसुश्रुवुः |"
As she exhaled, hundreds of thousands of her own warriors appeared.
"निःश्वासात् मुमुचे युध्यमाना अम्बिका ... सद्यः संभूताः गणाः शतसहस्रशः |

Several shlokas give vivid descriptions of the battle. In one particularly graphic shloka, some asuras were beaten with a pestle/club, which made them vomit blood.
"वेमुः च केचित् रुधिरं मुसलेन भृशं हताः |"

Devi vanquished the asura army like a fire burning a huge heap of grass and wood.
"क्षणेन तत् महासैन्यम् असुराणां तथा अम्बिका | निन्ये क्षयं यथा वन्हिः त्रुणदारुमहाचयम् |"

In all this, mahishAsura does not enter into a direct fight. He awaits with his jaw dropping army of 10,000,000,000,000,000 (कोटिकोतिसहस्रैः) chariots, elephants and horses.

Tuesday, June 7, 2016

प्रौढसंस्कृतशिक्षा विषये अनुभवाः अभिप्रायाः

 बाल्यकालात् एव मयि संस्कृताध्ययनस्य रुचिः अस्ति | किन्तु संस्कृतेन सम्भाषणस्य अवसरः केभ्यस्चित् मासेभ्यः पूर्वमेव अलभ्यत | एतम् अवसरम् संस्कृतभारत्याः सम्पर्केण प्राप्तवान् | अनेन कारणेन एतं सङ्घटनम् प्रति मम कृतज्ञता सदैव वर्तिष्यते | जनाः पृच्छन्ति, "किमर्थं संस्कृतं पठति? तेन किं प्रयोजनम्?" इति | अहं तस्य प्रश्नस्य उत्तरं दातुम् एव न शक्नोमि | संस्कृतभाषा मम पूर्वजानां ज्ञानकोषः अस्ति | "अहं कः अस्मि?" इत्येतस्य प्रश्नस्य उत्तरं संस्कृतेन विना मया ज्ञातुम् न हि शक्यम् |  "किमर्थं संस्कृतं पठति" इति प्रश्नः, "किमर्थं आत्मानम् ज्ञातुम् इच्छति" इव निरर्थकः श्रूयते | एकं चीनजनम् उपसर्प्य, "किमर्थं चीनभाषां पठति" इति पृच्छामः वा? न कदापि | सः प्रश्नः अपि निरर्थकः | संस्कृताध्ययनम् मम आनन्दाय, ज्ञानवर्धनाय च स्वविश्लेषणाय करोमि | एषा मम स्थितिः अस्ति | अन्येषाम् केषाञ्चित् जनानाम् स्थितिः अपि एषा अस्ति, न तु सर्वेषाम् |

    अत्र वयं एकं भेदं द्रष्टुं शक्नुमः | चीनजनेभ्यः चीनभाषाध्ययनम् अनिवार्योवर्तते | तया विना ते दैनन्दिनजीवनेषु असमर्थाः भविष्यन्ति | ते आनन्दाय, ज्ञानवर्धनाय, स्वविश्लेषणाय वा चीनभाषां न पठन्ति | सर्वे तया भाषया एव व्यवहारं कुर्वन्ति इत्यनेन कारणेन एव अधिकाधिक चीनजनाः चीनभाषाम् वदन्ति | अन्याः भाषाः अपि तादृश्यः एव | कोsपि आङ्ग्ल भाषायाः पठनात् पूर्वम् "अहं शेक्सपियरमहोदयस्य नाटकानि पठितुम् इच्छामि | तदर्थमेव आङ्ग्लभाषां पठामि", इति न वदति | परन्तु मया बहुत्र श्रूयते "अहं भगवद्गीताम् पठितुम् इच्छामि, उपनिषद् पठितुम् इच्छामि | तदर्थं एव संस्कृतं पठितुम् इच्छामि" इति | अत्र लाभः अस्ति, हानिः अपि | लाभः अस्ति यत् जनाः संस्कृतस्य सर्वोच्चाः चिन्तनाधाराः स्वाध्यायेन ज्ञातुम् इच्छन्ति | एतस्मात् एव सनातनधर्मः अधुना अपि प्रवर्तते | यवनदेशे न कुत्रापि होमरस्य काव्यानां प्रवचनानि भवन्ति | परन्तु भारते तु सर्वत्र रामायणस्य, गीतायाः, भागवतपुराणस्य च प्रवचनानि निरन्तरतया प्रवर्तन्ते | 

    तर्हि हानिः का ? कठोरसत्यम् अस्ति यत् काव्यशास्त्राणाम् स्वाध्यायः कठिनः अस्ति | रामायणस्य प्रथमे श्लोके, "नारदं परिपप्रच्छ", इति लिट् लकारस्य प्रयोगः अस्ति | यदि प्रथमस्थरीयः एकः उत्साहेन रामायणम् पठितुम् इच्छति, तर्हि सः प्रथमे श्लोके एव स्थास्यति (यथा अहं स्थितवान् :)) | दौर्भाग्यवशात् तस्य उत्साहस्य नष्टः अपि कदाचित् भविष्यति | आङ्ग्लभाषायाः छात्राः रसल्, एलियट् इव महान् लेखकानाम् रचनाः कदाचित् पठन्ति | ततः केचन उत्सुकाः छात्राः इतोपरि गभीररूपेण वाङ्ग्मयाध्ययनम् कुर्वन्ति, न तु सर्वे | परन्तु सर्वे आङ्ग्लभाषिताराः अन्यान् गभीरान् विषयान् आङ्ग्ल माध्यमेन लिखन्ति, पठन्ति, व्यवहरन्ति च | यद्यपि संस्कृतभाषा केवलं एका भाषा नास्ति, तथापि भाषायाः प्रमुखः उपयोगः मानवभावानां अभिव्यक्तीकरणं,  मानवजीवनस्य समस्यानाम् संशोधनं, मानवानाम् आनन्दवर्धनं च | एकेन बुभुक्षितेन कृषकेन सह मिलित्वा बुभुक्षा मिथ्या इति वदामि चेत् माम् अतिरिच्य मूर्खः कोsपि नास्ति | तस्य समस्यायाः निवारणम् अर्थशास्त्रे, आधुनिक कृषिशैल्याम्, राजनीत्याम् च अस्ति | एतेषु विषयेषु संस्कृतलेखाः अतीव विरलाः | आधुनिकगम्भीरविषयेषु संस्कृतज्ञैः शिक्षकैः अवधानं दातव्यम् | अन्यच्च, "Battle for Sanskrit" इति पुस्तकं जनेषु महतीं रुचिम् उत्पादयन् अस्ति | संस्कृतेन अस्य पुस्तकस्य अवलोकनं कुत्रचित् प्रकाशितम् अस्ति वा ? न जाने | संस्कृतस्य विषये संस्कृतज्ञानाम् अपेक्षया अन्ये एव अधिकं वदन्ति, लिखन्ति च | तर्हि संस्कृतज्ञाः आधुनिकविषयेषु अधिकं लिखेयुः इति मम गर्धना एव | 

    अन्ततोगत्वा अहं शास्त्रकाव्यानाम् पठनं च पाठनं व्यर्थाय इति न कदापि वदामि | मम रुचिः ततः एव उत्पन्ना, इदानीम् प्रवर्धमाना अस्ति अपि | प्रौढानाम् आरम्भस्तरीयकक्षासु वयं काकस्य कथाम् पाठयितुम् न शक्नुमः, न हि वेदान्ततत्वान् | मध्ये ये गभीराः, रुचिकराः च विषयाः सन्ति, तेषु वाङ्ग्मयस्य अभावः च संस्कृतमाध्यमेन चर्चायाः अभावः वर्तेते | अचिरात् एतस्य समाधानम् न भविष्यति | संस्कृतज्ञानाम् च अस्मत्सदृशविद्यार्थिनां सर्जनात्मक शक्तेः आवश्यकता अस्ति अत्र | अस्मिन् विषये सम्भाषणसन्देशपत्रिकायाः महत् योगदानम् अस्ति | अत्र एव संस्कृतमाध्यमेन जालतटस्थता (net neutrality), ताडपत्राणम्  संरक्षणम् इत्यादीनां दैनन्दिनसमस्यानम् विषये गभीरान् लेखान् अपठम् | इतोपरि क्रीडा, चलनचित्रं , सङ्गीतम् अर्थशास्त्रादिषु अधिकाः लेखाः भवेयुः| एकविंशतितमस्य शताब्देः नाटकान्, कथाः, लेखाः च भवेयुः | यावत् अस्माकम् जीवनेन सह स्निग्धसम्बन्धः न भविष्यति, तावत् भाषायाः वर्धनम् अपि न भविष्यति | पुनः वदामि यत् अचिरात् वयं संस्कृतभाषिताराः न भविष्यामः, परन्तु अस्मिन् विषये अस्माभिः चिन्तनीयम्, मन्दं मन्दम् अग्रे सर्तव्यम् च |

Saturday, May 7, 2016

A translation of the previous note


dravidian (obviously denoting geography and not the racist, periyarist claptrap)
 kings and cities in mahAbhArata:

When many of us listen to mahAbhArta, we tend to think of it as the itihAsa of just north Indian kings. Although the city of the heroes of the itihAsa was in northern India, the epic spans the entire Indian sub-continent. For example, krShNa was the king of dwAraka whose location is modern day gujarAt. We will not go into questions of whether dwAraka existed or not, but we can say with certainty that the references to dwAraka definitely place it in western bhArata. jayadratha was the king of sindhurAjya where present day karAchi is located. Similarly, karNa was the king of anga, which is the present day vanga or bengal. This is forms part of India's eastern borders. So are there references to dravidian kings in this itihAsa? Definitely so. Compared to this itihAsa, these questions may not arise in the case of rAmAyaNa since rAma's travel starts from ayodhyA and ends in laNkA. Therefore, southern kingdoms and cities like rAmeshwaram have a natural importance here. Fine, we will look at just two references to the pAndyAs. There are many more references which I will not cite due to length constraints and more importantly due to my own ignorance.

In the 19th chapter of karNaparva, the valor of malayadhwaja pandian is described at length. pAndyas are of course the dynasty that established and nurtured the tamil sangam in madurai (the birthplace of my parents) probably 2500 years ago. The pAndya king fought alongside the pAndavAs in the war. 

"सशक्तिप्रासतूणीरानश्वारोहान् हयानपि |
पुलिन्दखसबाह्लीक निषादान्ध्रककुन्तलान् ||
दाक्षिणात्यांश्च भोजांश्च सङ्ग्रामकर्कशान् |
विशस्त्र कवचान् बाणैः कृत्वाचैवकरोत् व्यसून् ||"


Here sanjaya says that the pAndya unarmed several warriors who fought with spears, axes, arrows and sent them to yamA's abode along with their horses. He killed several warriors from pulinda (vindhyAchala territories), khasa (madhya bhArata), bAhlika (bactria), nishAda (kings of the central forest), Andhra (...), dAkshiNatya (other southern kings), bhojapradesh  (again central india). So we get a minor geography lesson here. 

"द्रष्ट्वा द्रौणिरसम्भ्रान्तमसंभ्रान्तः ततोsभयात् ||"


drauNi, who knows no fear, saw the fearless pAndyA and challenged him for battle. drauNi is another name for aswaththAman. samskrita has the idea called taddhita-pratyaya where names can be given to someone based on their ancestor's names. The descendant of droNa is hence drauNi. The descendant of raghu is rAghava, kuru-->kaurava, anjanA-->Anjaneya, janaka--> jAnakI, parvata-->pArvatI, sitA --> siteya ... I can go all day with these. But you get the drift. After a terrible battle where both the great warriors rained arrows on each other, the pAndya gets killed by aswaththAman. dhritarAshtra praises the pAndyA lavishly for his bravery but also gets relieved after his vIragati.

In the 82nd chapter of vanaparva, rishi dhaumya narrates to yudhistra, about several holy cities, holy rivers and kingdoms of the south.

"कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ |
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि ताम् श्रुणु ||"

O bull among men, the holy city of kumArI (kanyAkumArI. 30km from my birthplace--the picture in the background of this blog) is in the country of the pAndyAs. There you can find the holy river tAmraparanI where even the devas bathed and performed austerities to gain puNya. He narrates the stories of many other southern cities in these chapters. I've been able to find almost every major episode of the purANas in vanaparva :) This storehouse of knowledge can be read, sung, performed, heard, narrated countless times and we would still thirst for more. 

---
Appending the original here.
---

महाभारते द्राविडराजानः नगर्यः च

यदा वयं महाभारतकथाम् शृणुमः, तदा वयं चिन्तयामः यत् अयम् इतिहासः केवलं उत्तरभारतीय राज्ञाम् इतिहासः स्यात् | यद्यपि अस्य इतिहासस्य नायकानां नगरी उत्तरभारते अस्ति, तथापि महाभारतकथायाः विपुलत्वम् आभरतम् अस्ति | उदाहरणार्थं, कृष्णः द्वारकानगर्याः राजा आसीत्, यस्य आधुनिकप्रदेशं गुजरातराज्यः स्यात् | द्वारकानगरी आसीत् वा न वा इति प्रश्नस्य उत्तरं वयम् अत्र न दद्मः, परन्तु एतत् तु वयं जानीमः --- नगरस्य उल्लेखः यदस्ति, सः तु द्रुढतया पश्चिमभारतस्य उल्लेखः अस्ति इति | जयद्रथस्य राज्यम् सिन्धुराज्यम् आसीत्, यत्र अद्यतन कराची नगरं अस्ति | तथैव कर्णस्य अङ्गराज्यम्, आधुनिक वङ्गराज्यम् अथवा बेङ्गाल् प्रदेशः अस्ति | अयं प्रदेशः भारतस्य पूर्वसीमायाम् अस्ति |  तर्हि दक्षिणभारतीय राज्यानां उल्लेखाः महाभारते सन्ति वा न वा? अवश्यम् सन्ति | अस्य इतिहासस्य तुलनायां रामायणविषये समानाः प्रश्नाः अस्मासु अधिकतया न उद्भवन्ति | किमर्थं ? रामायणे, रामस्य यात्रा अयोध्यायाः प्रारभ्य लङ्कापर्यन्तं भवति | तर्हि तत्र दक्षिणराज्यानां, रामेश्वरसद्र्शतीर्थानां च प्रामुख्यम् अधिकं वर्तते | अस्तु, महाभारते पाण्ड्यानाम् राज्यस्य उल्लेखान् पश्यामः | अन्याः बहवः उल्लेखाः स्युः | परन्तु, मम अल्पज्ञत्वस्य कारणात् द्वे उदाहरणे एव पश्यामः |

कर्णपर्वणः नवदशोध्याये मलयध्वजपाण्ड्यस्य युद्धकौशलस्य वर्णनम् अस्ति | सः राजा पाण्डवैः सह, कौरवान् विरुध्य युद्धं अकरोत् | सार्धद्विसहस्राधिकवर्षेभ्यः पूर्वम्, पाण्ड्याः तमिळ् सङ्गस्य पोषणं कृतवन्तः | तेषां राजधानी मधुरानगरी आसीत्, यत्र मम पितुः जन्म जातम् | 

"सशक्तिप्रासतूणीरानश्वारोहान् हयानपि |
पुलिन्दखसबाह्लीक निषादान्ध्रककुन्तलान् ||
दाक्षिणात्यांश्च भोजांश्च सङ्ग्रामकर्कशान् |
विशस्त्र कवचान् बाणैः कृत्वाचैवकरोत् व्यसून् ||"

अत्र सञ्जयः वदति यत् पाण्ड्यः, प्रासैः, शक्तिभिः, तूणीरैः इत्यादिभिः शस्त्रैः युक्तान् अश्वारूढान् योद्धान्, तेषां अश्वान् च यमसादनम् प्रेषितवान् इति | अपि च अन्यानां राज्यानां सूचनाम् वयं प्राप्नुमः | पुलिन्दस्य (विन्ध्याचल प्रदेशः), खसस्य (मध्य आशिया खण्डं), बाह्लीकस्य  (यवन जनैः बाक्ट्रिया इति उक्तं क्षेत्रं), निषादस्य (मध्यभारतीय वनवासिनः जनाः), आन्ध्रस्य (आन्ध्रा एव),   दाक्षिणत्यस्य, भोजप्रदेशस्य (मध्यभारतम् ?), योद्धान् सः बाणैः निरायुधान् कृत्वा मारितवान् इति सञ्जयस्य कथनम् |

"द्रष्ट्वा द्रौणिरसम्भ्रान्तमसंभ्रान्तः ततोsभयात् ||"
निर्भयः द्रौणिः (अश्वत्थामन् ) निर्भयं पाण्ड्यं द्रष्ट्वा तस्य सम्मुखम् अकरोत् | भीषणयुद्धस्य अनन्तरं अश्वत्थामना पाण्ड्यः मृत्युं उपगतः |

वनपर्वणः अष्टाशीतितमोsध्याये धौम्यमुनिना युधिष्ठ्राय दक्षिणभारतस्य  बहूनाम् क्षेत्राणां, नदीनाम् च पुण्यतीर्थानाम् वर्णनम् भवति |
"कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ |
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि ताम् श्रुणु ||"
पाण्ड्यानाम् राज्ये कुमारी (कन्याकुमारी-- मम जन्मस्थानम् ततः अर्धघण्टादूरे अस्ति) इति पुण्यनगरी अस्ति | अपि च ताम्रपर्णी तिरुनेल्वेलीनगर्या प्रवहति | अस्मिन् अध्याये दक्षिणभारतस्य अन्यानां क्षेत्राणां वर्णनम् अपि अस्ति | भारतीय इतिहासपुराणानाम् सर्वाः कथाः वनपर्वणि उपलभ्यन्ते :) 
ज्ञानस्य कोशः अयं इतिहासः |

Saturday, April 30, 2016

महाभारते द्राविडराजानः नगर्यः च

यदा वयं महाभारतकथाम् शृणुमः, तदा वयं चिन्तयामः यत् अयम् इतिहासः केवलं उत्तरभारतीय राज्ञाम् इतिहासः स्यात् | यद्यपि अस्य इतिहासस्य नायकानां नगरी उत्तरभारते अस्ति, तथापि महाभारतकथायाः विपुलत्वम् आभरतम् अस्ति | उदाहरणार्थं, कृष्णः द्वारकानगर्याः राजा आसीत्, यस्य आधुनिकप्रदेशं गुजरातराज्यः स्यात् | द्वारकानगरी आसीत् वा न वा इति प्रश्नस्य उत्तरं वयम् अत्र न दद्मः, परन्तु एतत् तु वयं जानीमः --- नगरस्य उल्लेखः यदस्ति, सः तु द्रुढतया पश्चिमभारतस्य उल्लेखः अस्ति इति | जयद्रथस्य राज्यम् सिन्धुराज्यम् आसीत्, यत्र अद्यतन कराची नगरं अस्ति | तथैव कर्णस्य अङ्गराज्यम्, आधुनिक वङ्गराज्यम् अथवा बेङ्गाल् प्रदेशः अस्ति | अयं प्रदेशः भारतस्य पूर्वसीमायाम् अस्ति |  तर्हि दक्षिणभारतीय राज्यानां उल्लेखाः महाभारते सन्ति वा न वा? अवश्यम् सन्ति | अस्य इतिहासस्य तुलनायां रामायणविषये समानाः प्रश्नाः अस्मासु अधिकतया न उद्भवन्ति | किमर्थं ? रामायणे, रामस्य यात्रा अयोध्यायाः प्रारभ्य लङ्कापर्यन्तं भवति | तर्हि तत्र दक्षिणराज्यानां, रामेश्वरसद्र्शतीर्थानां च प्रामुख्यम् अधिकं वर्तते | अस्तु, महाभारते पाण्ड्यानाम् राज्यस्य उल्लेखान् पश्यामः | अन्याः बहवः उल्लेखाः स्युः | परन्तु, मम अल्पज्ञत्वस्य कारणात् द्वे उदाहरणे एव पश्यामः |

कर्णपर्वणः नवदशोध्याये मलयध्वजपाण्ड्यस्य युद्धकौशलस्य वर्णनम् अस्ति | सः राजा पाण्डवैः सह, कौरवान् विरुध्य युद्धं अकरोत् | सार्धद्विसहस्राधिकवर्षेभ्यः पूर्वम्, पाण्ड्याः तमिळ् सङ्गस्य पोषणं कृतवन्तः | तेषां राजधानी मधुरानगरी आसीत्, यत्र मम पितुः जन्म जातम् | 

"सशक्तिप्रासतूणीरानश्वारोहान् हयानपि |
पुलिन्दखसबाह्लीक निषादान्ध्रककुन्तलान् ||
दाक्षिणात्यांश्च भोजांश्च सङ्ग्रामकर्कशान् |
विशस्त्र कवचान् बाणैः कृत्वाचैवकरोत् व्यसून् ||"

अत्र सञ्जयः वदति यत् पाण्ड्यः, प्रासैः, शक्तिभिः, तूणीरैः इत्यादिभिः शस्त्रैः युक्तान् अश्वारूढान् योद्धान्, तेषां अश्वान् च यमसादनम् प्रेषितवान् इति | अपि च अन्यानां राज्यानां सूचनाम् वयं प्राप्नुमः | पुलिन्दस्य (विन्ध्याचल प्रदेशः), खसस्य (मध्य आशिया खण्डं), बाह्लीकस्य  (यवन जनैः बाक्ट्रिया इति उक्तं क्षेत्रं), निषादस्य (मध्यभारतीय वनवासिनः जनाः), आन्ध्रस्य (आन्ध्रा एव),   दाक्षिणत्यस्य, भोजप्रदेशस्य (मध्यभारतम् ?), योद्धान् सः बाणैः निरायुधान् कृत्वा मारितवान् इति सञ्जयस्य कथनम् |

"द्रष्ट्वा द्रौणिरसम्भ्रान्तमसंभ्रान्तः ततोsभयात् ||"
निर्भयः द्रौणिः (अश्वत्थामन् ) निर्भयं पाण्ड्यं द्रष्ट्वा तस्य सम्मुखम् अकरोत् | भीषणयुद्धस्य अनन्तरं अश्वत्थामना पाण्ड्यः मृत्युं उपगतः |

वनपर्वणः अष्टाशीतितमोsध्याये धौम्यमुनिना युधिष्ठ्राय दक्षिणभारतस्य  बहूनाम् क्षेत्राणां, नदीनाम् च पुण्यतीर्थानाम् वर्णनम् भवति |
"कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ |
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि ताम् श्रुणु ||"
पाण्ड्यानाम् राज्ये कुमारी (कन्याकुमारी-- मम जन्मस्थानम् ततः अर्धघण्टादूरे अस्ति) इति पुण्यनगरी अस्ति | अपि च ताम्रपर्णी तिरुनेल्वेलीनगर्या प्रवहति | अस्मिन् अध्याये दक्षिणभारतस्य अन्यानां क्षेत्राणां वर्णनम् अपि अस्ति | भारतीय इतिहासपुराणानाम् सर्वाः कथाः वनपर्वणि उपलभ्यन्ते :) 
ज्ञानस्य कोशः अयं इतिहासः |

Saturday, March 5, 2016

हिन्दु जीवनम् इत्युक्ते किम् ? लघु लेखः

'हिन्दु' इति शब्दः अस्माकम् वेदेषु अथवा इतिहासपुराणेषु नास्ति | इदानीं यं मतं हिन्दुमतम् इति ज्ञायते, तत् मतं बहवः मतानां सङ्ग्रहम् अस्ति | हिन्दु इति शब्दस्य प्रयोगः प्रथम वारं यवन जनैः च पारसिक जनैः कृतः आसीत् | ये जनाः सिन्धु नद्याः पूर्व दिशायम् अवसन् ते हिन्दवः इति तैः उक्तम् | हिन्दुजीवनस्य आधारः धर्मः | केनापि विश्वासेन धर्मस्य सम्बन्धः नास्ति | वेदान्तिनः ब्रह्मणः विषये वदन्ति, अपि च विश्वासं कुर्वन्ति | शैवाः, जैनाः, वैष्णवाः, सिक्खाः, इति मतेषु सहस्राधिक भेदाः सन्ति | तथापि सर्वे जनाः धार्मिकाः भवितुं शक्नुवन्ति | तदर्थमेव 'धर्मः' च 'मतम्' समानार्थक शब्दे न स्तः | मतं एकस्य स्वाभिप्रायः अस्ति | परन्तु धर्मः तत् नास्ति | तर्हि धर्मः नाम किम् ? "धर्मो विश्वस्य जगतः प्रतिष्ठा" तैत्तिरीय उपनिषदः वाक्यम् अस्ति | यः समस्त लोकान् धारयति सः धर्मः | परन्तु अस्माकम् सामान्य जीवने धर्मः इत्युक्ते किम् ? अस्माकम् जीवनानि कः धारयति? अस्माकम् जीवनानि पुरुषार्थैः निर्धारितानि | सर्वेषां जीवनेषु कामः (मोहः) अस्ति | वयं धनं, शक्तिं, विद्याम्, सर्वं प्राप्तुम् इच्छामः | किन्तु अस्माभिः सर्वाः इच्छाः तोषयितुं न शक्यन्ते | कामसन्तुष्टार्थम् सर्वदा अर्थस्य अभावः अस्ति | यद्यपि अर्थाभावः भवति, तथापि उत्तमम् जीवनम् भवति धर्माचरणेन | तदर्थं अस्माकम् ऋषयः, पितामहाः, प्रपितामहाः, बहुविधान् ग्रन्थान् अरचयन् | वेदाः, इतिहासपुराणाः, जैनागमाः, त्रिपिटकाः, इत्यादयः अस्माकं मार्गदर्शनं कुर्वन्ति | कथं धार्मिकाः भवेम इति एते ग्रन्थाः अस्मान् निर्दिशन्ति | परन्तु केवलं ग्रन्थपूजा न करणिया, अस्माकं विवेकं उपयुज्य सत्यस्य अन्वेषणं करणीयं इति अपि ते स्पष्टतया अवदन् | गीतायाम् कृष्णेन उक्तं ---
"यां इमाम् पुष्पितां वाचं प्रवदन्त्यविपस्चितः |
वेद वाद रताः पार्थ नान्यद् अस्तीति वादिनः ||"
अत्र ग्रन्थ पूजायाः महान्तम् तिरस्कारम् अकरोत् | एताद्र्शानि वचनानि पुनः पुनः पठामः, यत् सत्यं परम् अस्ति, तथा सत्यस्य अवगमनं ज्ञानात् च स्वानुभवात् एव आगच्छति इति |

हिन्दु जीवनस्य विषये ज्ञानम् प्राप्तुम् आजीवनं न पर्याप्तम् | अतः उपनिषदः वाक्येषु आश्रयम् स्वीकृत्य विरमामि |
"सत्यान्न प्रमदितव्यम् | धर्मान्न प्रमदितव्यम् | कुशलान्न प्रमदितव्यम् | भूत्यै न प्रमदितव्यम् | स्वाध्याय प्रवचनाभ्यान्न प्रमदितव्यम् |"