भारतीयचिन्तनस्य सर्वोत्कृष्टानि चिन्तनानि वेदेषु सन्ति इति श्रद्धावतां कथनम्। तैः एतदपि कथ्यते यत् ये जनाः वेदान् पठितुं न शक्नुवन्ति, तेभ्यः वेदस्य सारः प्रापणीयः इति धिया एव इतिहासपुराणनि रचितानि इति। तेषु बृहत्तमं, विलक्षणतमम्, अवगन्तुं कठिनतमं च अस्ति महाभारतम्। शतकोट्यधिकजनाः प्रतिदिनम् अस्य महाग्रन्थस्य प्रभावम् अनुभवन्ति इत्यतः, भारतीयजीवने महाभारतस्य प्रभावं मापयितुमेव न शक्नुमः। अतः महाभारतम् इति इतिहासस्य उपन्यासत्वेन लेखनं कश्चन भगीरथप्रयत्नः वर्तते। एकलक्षश्लोकानाम् अस्मै महासागराय उपन्यासरूपं दत्तं १९७६ तमे वर्षे भैरप्पमहाभागेन। कण्णडमूलस्य अस्य ग्रन्थस्य सार्थकं नाम अस्ति "पर्व"। उपन्यासस्य संस्कृतानुवादः २०१२ तमे वर्षे डा. विश्वासेन कृतः। अनुवादकारस्य प्रयत्नः नितरां श्लाघनीयः। संस्कृतानुवादस्य लाभः अस्ति यत् प्रोक्तयः, पदानि, वाक्यनिर्माणमित्यादयः बहुत्र समानाः भवन्ति। अतः मूलस्य भावाभिव्यक्तिः नष्टा न भवति। मूलभाषाम् अज्ञात्वा अपि, सहृदयाः मूलस्य अतिनिकटं गत्वा आस्वादयितुं शक्नुवन्ति। आङ्ग्लानुवादेन एतत् न साध्यम्। संस्कृतग्रन्थानाम् अन्यासु भाषासु अनुवादः जातः, जायमानः च अस्ति, किन्तु अस्मिन् व्यवहारे परिवर्तनम् आवश्यकं, तस्य परिवर्तनस्य समयः अपि आगतः। अतः एतादृशानि कार्याणि प्रोत्साहनीयानि, इतोऽपि अधितकतया भवेयुः च।
लेखकः सर्वदा भौतिकलोके एव स्थित्वा महाभारतम् अवलोकयति। एतत् कथम् अत्यद्भुतरीत्या साधितवान् इति वयं पठित्वा आश्चर्यान्विताः भवामः। कृष्णः भगवान् न आसीत् चेत् सः धृतराष्ट्रस्य सभायाः कथम् अपलायत? पाण्डवानां जन्म कथम् अभवत्? भीष्मसदृशः वृद्धः योद्धुम् अशक्ष्यत् किम्? इति, सर्वेषां प्रश्नानाम् उत्तरं दैवशक्त्या विना ददाति। सर्वे जनाः सामान्यराजमहाराजाः, महिलाः, सूताः, भ्रातरः, पत्न्यः इत्यादयः, सन्तः सामान्यजनानां स्वभावान् प्रदर्शयन्ति। भीमस्य क्रोधः, अर्जुनस्य दर्पः, आर्यधर्मस्य विषये भीष्मस्य, धर्मजस्य च दुर्ग्रहः, तस्मिन् विषये एव द्रौपद्याः विरक्तिः, इति मनुष्यस्वभावान् प्रधानीकृत्य गाढतया, निपुणतया च लेखकः महाभारतम् अनुसन्दधाति। सर्वत्र जनानाम् वयसः उल्लेखः अस्ति। प्रथमे पुटे एव शल्यमहारजः तस्य वयः किम् इति ऊहयितुम् सवस्य पौत्रीम् पृच्छति। अनन्तरं सः एव वदति यत् सः भीष्मात् ३६ वर्षैः कनीयान्, भीष्मः विंशत्यधिकशतवर्षीयः इति। तथैव पाण्डवाः अपि पञ्चाशदधिकवर्षीयाः। चित्रेषु, नाटकेषु सर्वत्र पाण्डवान् यौवनेन दृष्ट्वा एतत् रूपं मनसि रुचिं जनयति। कथायाः प्रस्तुतिं पात्राणां मुखात् लेखकः निपुणतया करोति। एतदपि अस्मभ्यं रुचिकरं भवति। तदानीं रथाः, शकटानि एव आसन्, यैः सप्ताहान् यावत् यात्राः भवन्ति स्म। अर्जुनस्य द्वारवती यात्रा, भीमस्य हिडिम्बवनं प्रति यात्रा, भीष्मस्य व्यासाश्रमम् प्रति यात्रा, इति यात्रा समये पात्राणम् मनःस्थितिभिः, स्मरणैः द्वारा लेखकः कथाम् अग्रे सारयति। यात्रैः द्वारा भारतस्य उच्चावचानि क्षेत्राणि अस्माकं पुरतः आनयति। मगधराज्यस्य निबिडानाम् वनानाम्, हिमालये पाण्डोः आश्रमस्य इति, क्षेत्राणां वर्णने लेखकस्य कौशलं सुष्ठु दृश्यते। मुख्यतया द्वारिकानगर्याः भवनानां, पुलीनयुक्तानां समुद्रतटनां, निदाघस्य घर्मस्य वर्णनम् अस्मान् तत्रैव प्रापयति। युद्धस्य विवरणमपि तार्किकदृष्ट्या कृतम् अस्ति। मूत्रपुरीषदुर्गन्धेन, शवानाम् पूतिगन्धेन च सर्वे वीराः पीडिताः भवन्ति। मृतानाम् शरीराणि गृध्राः, वन्यशुनकाः, वृकाः च भक्षयन्ति। तेभ्यः शरीरेभ्यः चौराः, लोहाकाराः आभरणनि, शस्त्राणि चोरयन्ति। शवान् निष्कासयितुमपि न कोऽपि सेवकः अवशिष्टः भवति इति कारणेन प्रतिदिनं युद्धभूमेः परिवर्तनं भवति। एवं, युद्धस्य क्रूरतां, बीभत्सताम् च अस्माकम् मनसिकनेत्रयोः समीपम् आनयति लेखकः।
यथा महाभारते, तथा उपन्यासेऽस्मिन् अपि एकः एव प्रधानः प्रश्नः। धर्मः नाम कः? दुर्योधनस्य मतानुसारे पाण्डवाः नियोगवशात् जाताः, अतः राज्ये तेषां न कोऽपि अधिकारः वर्तते । सः एतत् बुध्वाऽपि विस्मरति यत् तस्य पितुः जन्म अपि नियोगेनैव अभवत्। यद्यपि एतत् भीष्मेण ज्ञातम् अस्ति, सः अपि धर्माचरणं परित्यज्य स्वस्य प्रतिज्ञायाः विषये एव चिन्तयन् भवति। आर्यजगति सः प्रतिज्ञाशीलः इति ख्यातिं प्राप्तवान्, अतः ख्यातेः रक्षणार्थं किञ्चन व्याजम् रचयित्वा स्वस्य प्रतिज्ञापालनमेव आर्यधर्मः इति कथयन् भवति। वस्तुतः धर्मः पाण्डवपक्षे अस्ति इति ज्ञात्वा अपि व्यासस्य उपदेशं प्राप्तुं व्यासाश्रमं गच्छति। आश्रमे प्राप्ते सति, आश्रमवासिनः भीष्मं निवेदयन्ति यत् व्यासस्य पुत्रः शुकः सांसारिकविषयान् सर्वान् परित्यज्य, भोजनमपि परित्यज्य मृत्युम् आलिङ्गितवान् इति। यद्यपि एतत् जीवनं मिथ्या इति व्यासस्य विश्वासः वर्तते, तथापि पुत्रशोकात् सः पीडितः भवति। तदानीं, यस्य वेदस्य आधारेण जीवति, तस्य वेदस्य खण्डनं कर्तुं नास्तिकाः तस्य आश्रमम् आगच्छन्ति। एकस्मिन् पार्श्वे भीष्मः आर्यधर्मस्य विषये सामाधानं प्राप्तुमिच्छति, अपरस्मिन् पार्श्वे पुत्रस्य मरणेन, नास्तिकानाम् आगमनेन च महऋषेः व्यासस्य मनसि एव धर्मविषये सम्भ्रमः उद्भवति। दुर्योधनस्य दूतानाम् आगमनात् भीष्मः त्वरया आश्रमात् निर्गच्छति, मर्गे स्वस्य समाधानमपि साधयति। यथा शुकाचार्यः आजीवनं ब्रह्मचारी आसीत्, तथैव मम ब्रह्मचर्यं श्रेष्ठम् अस्ति, तदेव धर्मः इति कथञ्चित् स्वस्मै आश्वासनं ददाति।
भैरप्पवर्यः नारीणां स्थितिं महता संवेदनेन अनुसन्दधाति। भीष्मः, गान्धारदेशस्य महाराजस्य पुरतः हस्तिनावत्याः बलम्, सम्पत् च प्रदर्शयित्वा, अन्धस्य धृतराष्ट्रस्य कृते वधूरूपेण गान्धारीं पृच्छति। राजा अपि, बलात् भीतः, धनात् लुब्धः सन् विवाहप्रस्तावम् अङ्गीकरोति। युवती गान्धारी अन्धेन सह तस्याः विवाहः भविष्यति इति ज्ञात्वा हठत्वेन नेत्रबन्धनं करोति। एतत् आचरणं युवत्याः हठः इत्यपि अज्ञात्वा सर्वे आर्यजनाः तस्याः लघुबालिकायाः उपरि 'पतिव्रता' इति पदवीम् आरोपयन्ति। यथा युवकस्य देवव्रतस्य उपरि 'भीष्मः' इति पदवीम् आरोपितवन्तः, तथैव। सा एव पदवी भविष्यत्काले कारागारत्वम् आप्नोति, कुलस्य नाशम् अपि कारयति। द्रौपद्याः विषये अपि धर्मस्य त्यागः, 'आर्यधर्मस्य' ग्रहणं सर्वैः क्रियते। एकदा प्रतिविन्ध्येन "आर्यधर्मः नाम कः?" इति प्रश्ने कृते तस्य माता द्रौपदी वदति, "मृगया, पानम्, स्त्रीव्यसनम्, द्यूतश्च इति मम मनसि स्फुरितम्", इति।
वस्तुतः धर्मस्य विषये कश्चन चिन्तयति चेत् सः कृष्णः। भैरप्पवर्यस्य कृष्णः महाभारतकृष्णादपि अतिरिच्यते। कथम् नाम, महाभारतकृष्णः भगवान् आसीत्, परम् अत्र सः अपि सामान्यः सन् कथायाः नायकत्वम् आवहति। तस्य धैर्यं, विवेचनं, सुदूरदृष्टिः, युद्धतन्त्राणि, सर्वेऽपि पाठकान् आकर्षयन्ति। नरकासुरेण वञ्चिताः शतशाः नार्यः कृष्णेन परिणीताः। ताभिः कृष्णस्य पत्न्यः इति अङ्गीकारः प्राप्तः। यदा सम्पूर्णम् आर्यजगत् तासाम् अपमाननम् अकरोत्, तदा कृष्णः एव तासां परामर्शदाता आसीत्। तथैव द्रौपदी, गान्धारी, कुन्ती, इति राजकुटुम्बस्य प्रमुखाणां नारीणाम् अन्तरङ्गं प्रविश्य तासां विरक्तिम् निवारयति कृष्णः एव। गान्धार्याः विषये भैरप्प्कृष्णस्य व्यवहारः अतीव सम्वेदनायुक्तः, परमधार्मिकः च। महाभारतं इति महासमुद्रे विद्यमानानां पात्राणां देवत्वं निष्कास्य तेषाम् मानुषस्वभावानाम् विवेचनं महता औचित्येन साधितम् लेखकेन। भैरप्पवर्यः धर्मः नाम कः इति स्वयम् अकथयित्वा सहृदयानेव अन्वेष्टुम् प्रेरयति इत्येतदपि तस्य सफलता। आहत्य एषः उपन्यासः आधुनिकभारतीयसाहित्ये बहुमुख्या रचना अस्ति।