Saturday, December 3, 2016

आनन्दमठः -- पुस्तकावलोकनम्

संस्कृताध्ययने, सम्भाषणांशान् विहाय अन्यत् किं कुर्याम इति चिन्ता आयाति स्म केभ्यश्चित् मासेभ्यः प्राक् । तस्मिन् समये, 'सररस्वती सेवा' नाम्नः कश्चन प्रकाशन-कार्यस्य विशये ज्ञातवान् । अस्य कार्यस्य उद्देश्यः आसीत् बहूनाम् पुस्तकानाम् संस्कृतानुवादः । अयं तु उत्तमः उद्देश्यः । बहुकालाय वयं वदन्तः स्मः यत् पुस्तकानां च विचाराणां संस्कृतानुवादः भवेत् । ज्येष्ठाः वदन्ति यत् संस्कृतस्य ज्ञानराशिः अस्माभिः अधिगन्तव्यः इति । एतत् तु सत्यम् यत् प्रायः सप्तदशतम-शताब्देः पूर्वं भारतस्य गणितज्ञाः यूरोपीय गणितनज्ञानाम् अपेक्षया उत्कृष्टान् आविष्कारान् कृतवन्तः। 'Cognitive neuroscience' इत्यस्मिन् क्षेत्रे इदानीम् अपि भारतीय ज्ञानराशेः परम-मुख्यत्वम् अस्ति। किन्तु अद्यतन विज्ञानम् संस्कृतग्रन्थेभ्यः बहुदूरम् अगच्छत्। एकम् एव उदाहरणम् दास्यामि। 'परमाणुः' इति पदार्थः प्रतिपादितः कणाड-ऋषिणा। अयं तु सत्यं यत् लोकस्य सर्वेपि पदार्थाः परमाणुभिः रचिताः। किन्तु विंशतितमे शताब्दौ वयं परमाणोः विशये बहु किमपि ज्ञातवन्तः। परमाणोः विच्छेदनम् कृत्वा सूक्ष्मस्तरे तस्य आकारम् अभिज्ञातवन्तः। एतत् ज्ञानम् तु विंशतितमशताब्देः पूर्वे विरचिते कस्मिन् अपि ग्रन्थे न उपलभ्यते। यदा वैज्ञानिकविचाराणम् अनुवादः भवति, तदैव भाषा आधुनिकप्रयोगाय उचिता भवति। आङ्ग्लभाषायाम् 'fossilized' इति शब्दः अस्याः परिस्थितेः वर्णनाय उचितः। इयं परिस्थितिः न केवलम् संस्कृतभाषायाः, किन्तु सर्वासाम् भारतीयभाषाणम्। एकया रीत्या अस्याः स्थितेः दूरी करणाय एव 'सरस्वती सेवा' कार्यः परिकल्पितः स्यात्।

१९५२ हिन्दी चलनचित्रम्
वयं 'आनन्दमठः' इति वङ्गभाषायाः सुप्रसिद्धं ग्रन्थम् अपठम्। बङ्किम्चन्द्र चट्टोपाध्यायेन रचितः अयं उपन्यासः शिवचरणशर्मावर्येण अनुवादितः। १७७८ वर्षस्य वङ्गप्रदेशस्य अकाल-समयात् उपन्यासः प्रारभते। महेन्द्रः इति कश्चन धनिकः स्वग्रामं त्यक्त्वा पत्नीं, क्रोडस्थां पुत्रीं च नीत्वा अन्यत्र गच्छति। यद्यपि सः धनिकः अस्ति, तथापि ग्रामे किमपि अवशिष्टं नास्ति इति कारणेन पुत्र्यै दुग्धम् अपि दातुम् न शक्नोति। मार्गे कुटुम्बस्य वियोगः भवति। जनत्रयमपि कयाचित् रीत्या संन्यासीजनानाम् सकाशे आगच्छन्ति। किन्तु वियोगानन्तरम् ते अन्येषाम् स्थितिम् न जानन्ति। महेन्द्रः संन्यासीनाम् गुरुणा सत्यानन्देन सह मिलति। सत्यानन्दस्य वनस्थितस्य मठस्य नाम एव आनन्दमठः। सत्यानन्दः महेन्द्रं विज्ञापयति यत् संन्यासीनां एका विशाला सेना यवनजनान् (इस्लामीय जनान्) विरुध्य योद्धुं  सज्जतां कुर्वन् अस्ति इति। यवनजनाः आङ्ग्लवराकैः सह मिलित्वा भारतीयेभ्यः अधीनत्वं दत्तवन्तः, एन कारणेन देशस्य इयं दुःस्थितिः प्रासृता। महेन्द्रः संन्यासीनाम् व्रतं स्वीकतरोति, अपि च तस्य ग्रामे भुशुण्डीनां निर्माणं कर्तुम् प्रभवति। तस्य ग्रामे एकम् दुर्गम् अपि निर्मापयति। संन्यासीव्रतानुष्ठनं यः करोति, सः कयापि महिलया सह व्यवरहारं नैव कर्तुं अर्हति। किन्तु, संन्यासीनां सेनापतेः (जीवानन्दः) पत्नी, शन्तिः युद्धं कर्तुम् उद्यता भवति। सत्यानन्दः अपि तस्याः पराक्रमम्, बुद्धिम् च दृष्ट्वा ताम् संन्यासदीक्षाम् ददाति। संन्यासी जनाः कथम् मिलित्वा युद्धे विजयम् प्राप्नुवन्ति, नवभारतस्य निर्माणं कथं साधयन्ति इति काथायाः स्थूलावलोकनम्।

कथा अतीव रुचिकरा आसीत्, किन्तु प्रकाशणे बहवोमुद्रणदोषाः। तैः रसभङ्गः अभवत् बहुत्र। एवं स्थिते अपि, अनुमानं कृत्वा अपठम्। सत्यानन्दः महेन्द्रेण सह प्रथमवारमं यदा मिलति, तदा बहु रुचिकरः प्रसङ्गः आयाति। सः महेन्द्रं एकं मन्दिरं प्रति नयति। तत्र सः जगद्धात्र्याः मूर्तिं दर्शयति। भारतमातुः स्वरूपं एतत् एव आसीत्। यः कोपि आगतः तस्य पालनम् पोषणम् च कृतवती। भारतदेशः विश्वगुरुत्वं प्राप्य भूमौ एकस्मिन् विसिष्टे स्थाने उपविष्टः आसीत्। द्वितीयं चित्रं काली मातुः चित्रम् अस्ति। सा कङ्कालिनी, यः कोपि भारते आसीत्, तस्य वधं कृत्वा रक्तं च भुक्तवती। इस्लामीय आक्रमणम्, आङ्ग्लानाम् आक्रमणम् इति असह्यपीडाः अनुभूताः अस्माकम् पूर्वजैः। आङ्ग्लशासनात् पूर्वम् न कदापि एतावत् मात्रेशु आकालाः आसन् यत् वङ्गप्रान्ते तस्मिन् समये आसीत्। वङ्गप्रान्तस्य १/३ जनाः अकालेन भुक्ताः अभवन्। पुस्तके अपि अकालस्य वर्णनम् मनसि दुःखम् अजनयत्। तस्य समयस्य प्रतीकस्य रूपेण काली देव्याः चित्रम् आसीत्। तृतीयं चित्रं नवीनभारतमातुः चित्रम् आसीत्। यदा मतुः सन्तानाः सर्वे मिलित्वा आह्वयन्ति, तदा सा भारतीयानाम् उद्धारम् करिष्यति। उपन्यासे भारतस्य चित्रणं, भातरतनमातुः रूपेण कृतम्। एतत् रूपं भारतीय स्वतन्त्रतासङ्ग्रामे महान्तम् प्रभावम् साधयति स्म। 'वन्दे मातरम्' इति गीतम् अस्मिन् पुस्तके एव चट्टोपाध्ययवर्येण विरचितम्। अस्माकं देशभक्तेः सर्वोत्कृष्टं अभिव्यक्तिः 'वन्दे मातरम्' इति घोषणा। जन्मभूमेः स्वमात्रा सह तुलना नूतनः विशयः तु नास्ति। स्वयं श्रीरामचन्द्रेण कथितम् 'जननी जन्मभूमिस्च स्वर्गात् अपि गरीयसी' इति।


महेन्द्रस्य दीक्षायाः समये सः सत्यानन्दं पृच्छति -- सन्तानाः वैष्णवाः, अपि तु विष्णुः परमोदारः अस्ति। एवं स्थिते सति, सन्तानाः किमर्थं युद्धं कुर्वन्ति? तत्र सत्यानन्दस्य विवरणम् बहु सम्यक् आसीत्। शान्तिः धर्मस्य लक्ष्यम् अस्ति। किन्तु यदि धर्मसंरक्षणाय युद्धस्य आवश्यकता अस्ति, तर्हि योद्धव्यम् एव। महाविष्णुः करुणमयः अस्ति चेत् अपि, सः मधुकैटभरावणकन्सादीनाम् वधाय भूमिम् आगतवान्। तदर्थं चैतन्यस्य वैष्णवधर्मः अपूर्णः इति सत्यानन्दः वदति। करुणाभावना शक्तिशालेः आभूषणम् अस्ति। शक्तिविहीनः यदि 'करुणाभावः एव परमोधर्मः' इति वदति, तर्हि तत् कथनम् तस्य भीरुत्वम् एव प्रकाशयति। अपि च दीक्षायाः समये संन्यासिभिः प्रतिज्ञा स्वीकर्तव्या यत् ते स्वपरिवारं, पत्नीं, अपत्यानि, सर्वं त्यक्त्वा देशस्य कृते एव प्राणार्पणं कुर्युः। यदि व्रतभङ्गोभवति, तर्हि ते आत्महत्याम् कुर्युः। यद्यपि सन्तानाः सज्जनाः देशभक्ताः च आसन्, उपन्यासे बहुत्र व्रतभङ्गाः भवन्ति। सामान्यमानयवान् इव तेषां आचरणं भवति बहुत्र। तेषाम् कामः, लोभः, इन्द्रिय निग्रहणे विफलता अपि च असाधारणा देशभक्तिः, वीरता सर्वं अपि कथायाम् वर्णितम् अस्ति। मम सर्वप्रीयपात्रे सत्यानन्दः, शान्तिः च। भगवतः श्रीकृष्णस्य आचरणम् मनसि निधाय लेखकेन सत्यानन्दस्य पात्रस्य रचना कृता इति भाति। शान्तिः तु असाधारणा महिला अस्ति। सौन्दर्यं, शौर्यं, तीव्रबुद्धिः,देशभक्तिः, सर्वं अस्ति तस्याम्। यदा सत्यानन्दः तस्यै दीक्षां ददाति, तदा ताम् 'नवीनानन्दः' इति नाम ददाति। नवभारतस्य निर्माणाय भारतमातुः रूपं यत् कथायां वर्णितम् अस्ति, तत् शन्तेः चरित्रेण सह स्निग्धसादृश्यं दर्शयति। वन्दे मातरम्!