बाल्यकालात् एव मयि संस्कृताध्ययनस्य रुचिः अस्ति | किन्तु संस्कृतेन सम्भाषणस्य अवसरः केभ्यस्चित् मासेभ्यः पूर्वमेव अलभ्यत | एतम् अवसरम् संस्कृतभारत्याः सम्पर्केण प्राप्तवान् | अनेन कारणेन एतं सङ्घटनम् प्रति मम कृतज्ञता सदैव वर्तिष्यते | जनाः पृच्छन्ति, "किमर्थं संस्कृतं पठति? तेन किं प्रयोजनम्?" इति | अहं तस्य प्रश्नस्य उत्तरं दातुम् एव न शक्नोमि | संस्कृतभाषा मम पूर्वजानां ज्ञानकोषः अस्ति | "अहं कः अस्मि?" इत्येतस्य प्रश्नस्य उत्तरं संस्कृतेन विना मया ज्ञातुम् न हि शक्यम् | "किमर्थं संस्कृतं पठति" इति प्रश्नः, "किमर्थं आत्मानम् ज्ञातुम् इच्छति" इव निरर्थकः श्रूयते | एकं चीनजनम् उपसर्प्य, "किमर्थं चीनभाषां पठति" इति पृच्छामः वा? न कदापि | सः प्रश्नः अपि निरर्थकः | संस्कृताध्ययनम् मम आनन्दाय, ज्ञानवर्धनाय च स्वविश्लेषणाय करोमि | एषा मम स्थितिः अस्ति | अन्येषाम् केषाञ्चित् जनानाम् स्थितिः अपि एषा अस्ति, न तु सर्वेषाम् |
अत्र वयं एकं भेदं द्रष्टुं शक्नुमः | चीनजनेभ्यः चीनभाषाध्ययनम् अनिवार्योवर्तते | तया विना ते दैनन्दिनजीवनेषु असमर्थाः भविष्यन्ति | ते आनन्दाय, ज्ञानवर्धनाय, स्वविश्लेषणाय वा चीनभाषां न पठन्ति | सर्वे तया भाषया एव व्यवहारं कुर्वन्ति इत्यनेन कारणेन एव अधिकाधिक चीनजनाः चीनभाषाम् वदन्ति | अन्याः भाषाः अपि तादृश्यः एव | कोsपि आङ्ग्ल भाषायाः पठनात् पूर्वम् "अहं शेक्सपियरमहोदयस्य नाटकानि पठितुम् इच्छामि | तदर्थमेव आङ्ग्लभाषां पठामि", इति न वदति | परन्तु मया बहुत्र श्रूयते "अहं भगवद्गीताम् पठितुम् इच्छामि, उपनिषद् पठितुम् इच्छामि | तदर्थं एव संस्कृतं पठितुम् इच्छामि" इति | अत्र लाभः अस्ति, हानिः अपि | लाभः अस्ति यत् जनाः संस्कृतस्य सर्वोच्चाः चिन्तनाधाराः स्वाध्यायेन ज्ञातुम् इच्छन्ति | एतस्मात् एव सनातनधर्मः अधुना अपि प्रवर्तते | यवनदेशे न कुत्रापि होमरस्य काव्यानां प्रवचनानि भवन्ति | परन्तु भारते तु सर्वत्र रामायणस्य, गीतायाः, भागवतपुराणस्य च प्रवचनानि निरन्तरतया प्रवर्तन्ते |
तर्हि हानिः का ? कठोरसत्यम् अस्ति यत् काव्यशास्त्राणाम् स्वाध्यायः कठिनः अस्ति | रामायणस्य प्रथमे श्लोके, "नारदं परिपप्रच्छ", इति लिट् लकारस्य प्रयोगः अस्ति | यदि प्रथमस्थरीयः एकः उत्साहेन रामायणम् पठितुम् इच्छति, तर्हि सः प्रथमे श्लोके एव स्थास्यति (यथा अहं स्थितवान् :)) | दौर्भाग्यवशात् तस्य उत्साहस्य नष्टः अपि कदाचित् भविष्यति | आङ्ग्लभाषायाः छात्राः रसल्, एलियट् इव महान् लेखकानाम् रचनाः कदाचित् पठन्ति | ततः केचन उत्सुकाः छात्राः इतोपरि गभीररूपेण वाङ्ग्मयाध्ययनम् कुर्वन्ति, न तु सर्वे | परन्तु सर्वे आङ्ग्लभाषिताराः अन्यान् गभीरान् विषयान् आङ्ग्ल माध्यमेन लिखन्ति, पठन्ति, व्यवहरन्ति च | यद्यपि संस्कृतभाषा केवलं एका भाषा नास्ति, तथापि भाषायाः प्रमुखः उपयोगः मानवभावानां अभिव्यक्तीकरणं, मानवजीवनस्य समस्यानाम् संशोधनं, मानवानाम् आनन्दवर्धनं च | एकेन बुभुक्षितेन कृषकेन सह मिलित्वा बुभुक्षा मिथ्या इति वदामि चेत् माम् अतिरिच्य मूर्खः कोsपि नास्ति | तस्य समस्यायाः निवारणम् अर्थशास्त्रे, आधुनिक कृषिशैल्याम्, राजनीत्याम् च अस्ति | एतेषु विषयेषु संस्कृतलेखाः अतीव विरलाः | आधुनिकगम्भीरविषयेषु संस्कृतज्ञैः शिक्षकैः अवधानं दातव्यम् | अन्यच्च, "Battle for Sanskrit" इति पुस्तकं जनेषु महतीं रुचिम् उत्पादयन् अस्ति | संस्कृतेन अस्य पुस्तकस्य अवलोकनं कुत्रचित् प्रकाशितम् अस्ति वा ? न जाने | संस्कृतस्य विषये संस्कृतज्ञानाम् अपेक्षया अन्ये एव अधिकं वदन्ति, लिखन्ति च | तर्हि संस्कृतज्ञाः आधुनिकविषयेषु अधिकं लिखेयुः इति मम गर्धना एव |
अन्ततोगत्वा अहं शास्त्रकाव्यानाम् पठनं च पाठनं व्यर्थाय इति न कदापि वदामि | मम रुचिः ततः एव उत्पन्ना, इदानीम् प्रवर्धमाना अस्ति अपि | प्रौढानाम् आरम्भस्तरीयकक्षासु वयं काकस्य कथाम् पाठयितुम् न शक्नुमः, न हि वेदान्ततत्वान् | मध्ये ये गभीराः, रुचिकराः च विषयाः सन्ति, तेषु वाङ्ग्मयस्य अभावः च संस्कृतमाध्यमेन चर्चायाः अभावः वर्तेते | अचिरात् एतस्य समाधानम् न भविष्यति | संस्कृतज्ञानाम् च अस्मत्सदृशविद्यार्थिनां सर्जनात्मक शक्तेः आवश्यकता अस्ति अत्र | अस्मिन् विषये सम्भाषणसन्देशपत्रिकायाः महत् योगदानम् अस्ति | अत्र एव संस्कृतमाध्यमेन जालतटस्थता (net neutrality), ताडपत्राणम् संरक्षणम् इत्यादीनां दैनन्दिनसमस्यानम् विषये गभीरान् लेखान् अपठम् | इतोपरि क्रीडा, चलनचित्रं , सङ्गीतम् अर्थशास्त्रादिषु अधिकाः लेखाः भवेयुः| एकविंशतितमस्य शताब्देः नाटकान्, कथाः, लेखाः च भवेयुः | यावत् अस्माकम् जीवनेन सह स्निग्धसम्बन्धः न भविष्यति, तावत् भाषायाः वर्धनम् अपि न भविष्यति | पुनः वदामि यत् अचिरात् वयं संस्कृतभाषिताराः न भविष्यामः, परन्तु अस्मिन् विषये अस्माभिः चिन्तनीयम्, मन्दं मन्दम् अग्रे सर्तव्यम् च |
सुलिखितः।
ReplyDeleteयाः भाषा व्यावहारिकहजीवने प्रयुज्यन्ते ताः एव पुष्णन्ति। एतत् तु प्रत्यक्षः।सत्यम् वदामि चेत् प्रायेण संस्कृतज्ञानाम् लेखाः पिष्टपेषणवत् (அரைச்ச மாவை மீண்டும் அரைப்பது போல ) प्रतिभाति मे। ततेव पुराणैतिहासकाव्यानि विविधकोणेषु संश्लेषणम्। यथा त्वम् लिखितवान् असि,एते विषयाः अवश्यम् अतिरुचिकराः परम् अल्पीयद्भ्यः जनेभ्यः एव तान् प्रति आसक्तिः वर्तते।अद्यतन लौकिकविज्ञाननीत्यादि विषयान् प्रति अपि संस्कृतानुरागिनः उत्साहम् दर्शयेयुः चेत् भाषाम् आधुनिकीकर्तुम् शक्नुयाम, येन विविधप्रकरणान् अनया भाषया एव अनायासेन विवक्तुम् शक्नुयाम। वयम् सर्वाः संस्कृते विज्ञानादिविषयान् लेखितुम् वाङ्मयम् अवाप्तुम् नितराम् यतामहै|