बाल्यकालात् एव मयि संस्कृताध्ययनस्य रुचिः अस्ति | किन्तु संस्कृतेन सम्भाषणस्य अवसरः केभ्यस्चित् मासेभ्यः पूर्वमेव अलभ्यत | एतम् अवसरम् संस्कृतभारत्याः सम्पर्केण प्राप्तवान् | अनेन कारणेन एतं सङ्घटनम् प्रति मम कृतज्ञता सदैव वर्तिष्यते | जनाः पृच्छन्ति, "किमर्थं संस्कृतं पठति? तेन किं प्रयोजनम्?" इति | अहं तस्य प्रश्नस्य उत्तरं दातुम् एव न शक्नोमि | संस्कृतभाषा मम पूर्वजानां ज्ञानकोषः अस्ति | "अहं कः अस्मि?" इत्येतस्य प्रश्नस्य उत्तरं संस्कृतेन विना मया ज्ञातुम् न हि शक्यम् | "किमर्थं संस्कृतं पठति" इति प्रश्नः, "किमर्थं आत्मानम् ज्ञातुम् इच्छति" इव निरर्थकः श्रूयते | एकं चीनजनम् उपसर्प्य, "किमर्थं चीनभाषां पठति" इति पृच्छामः वा? न कदापि | सः प्रश्नः अपि निरर्थकः | संस्कृताध्ययनम् मम आनन्दाय, ज्ञानवर्धनाय च स्वविश्लेषणाय करोमि | एषा मम स्थितिः अस्ति | अन्येषाम् केषाञ्चित् जनानाम् स्थितिः अपि एषा अस्ति, न तु सर्वेषाम् |
अत्र वयं एकं भेदं द्रष्टुं शक्नुमः | चीनजनेभ्यः चीनभाषाध्ययनम् अनिवार्योवर्तते | तया विना ते दैनन्दिनजीवनेषु असमर्थाः भविष्यन्ति | ते आनन्दाय, ज्ञानवर्धनाय, स्वविश्लेषणाय वा चीनभाषां न पठन्ति | सर्वे तया भाषया एव व्यवहारं कुर्वन्ति इत्यनेन कारणेन एव अधिकाधिक चीनजनाः चीनभाषाम् वदन्ति | अन्याः भाषाः अपि तादृश्यः एव | कोsपि आङ्ग्ल भाषायाः पठनात् पूर्वम् "अहं शेक्सपियरमहोदयस्य नाटकानि पठितुम् इच्छामि | तदर्थमेव आङ्ग्लभाषां पठामि", इति न वदति | परन्तु मया बहुत्र श्रूयते "अहं भगवद्गीताम् पठितुम् इच्छामि, उपनिषद् पठितुम् इच्छामि | तदर्थं एव संस्कृतं पठितुम् इच्छामि" इति | अत्र लाभः अस्ति, हानिः अपि | लाभः अस्ति यत् जनाः संस्कृतस्य सर्वोच्चाः चिन्तनाधाराः स्वाध्यायेन ज्ञातुम् इच्छन्ति | एतस्मात् एव सनातनधर्मः अधुना अपि प्रवर्तते | यवनदेशे न कुत्रापि होमरस्य काव्यानां प्रवचनानि भवन्ति | परन्तु भारते तु सर्वत्र रामायणस्य, गीतायाः, भागवतपुराणस्य च प्रवचनानि निरन्तरतया प्रवर्तन्ते |
तर्हि हानिः का ? कठोरसत्यम् अस्ति यत् काव्यशास्त्राणाम् स्वाध्यायः कठिनः अस्ति | रामायणस्य प्रथमे श्लोके, "नारदं परिपप्रच्छ", इति लिट् लकारस्य प्रयोगः अस्ति | यदि प्रथमस्थरीयः एकः उत्साहेन रामायणम् पठितुम् इच्छति, तर्हि सः प्रथमे श्लोके एव स्थास्यति (यथा अहं स्थितवान् :)) | दौर्भाग्यवशात् तस्य उत्साहस्य नष्टः अपि कदाचित् भविष्यति | आङ्ग्लभाषायाः छात्राः रसल्, एलियट् इव महान् लेखकानाम् रचनाः कदाचित् पठन्ति | ततः केचन उत्सुकाः छात्राः इतोपरि गभीररूपेण वाङ्ग्मयाध्ययनम् कुर्वन्ति, न तु सर्वे | परन्तु सर्वे आङ्ग्लभाषिताराः अन्यान् गभीरान् विषयान् आङ्ग्ल माध्यमेन लिखन्ति, पठन्ति, व्यवहरन्ति च | यद्यपि संस्कृतभाषा केवलं एका भाषा नास्ति, तथापि भाषायाः प्रमुखः उपयोगः मानवभावानां अभिव्यक्तीकरणं, मानवजीवनस्य समस्यानाम् संशोधनं, मानवानाम् आनन्दवर्धनं च | एकेन बुभुक्षितेन कृषकेन सह मिलित्वा बुभुक्षा मिथ्या इति वदामि चेत् माम् अतिरिच्य मूर्खः कोsपि नास्ति | तस्य समस्यायाः निवारणम् अर्थशास्त्रे, आधुनिक कृषिशैल्याम्, राजनीत्याम् च अस्ति | एतेषु विषयेषु संस्कृतलेखाः अतीव विरलाः | आधुनिकगम्भीरविषयेषु संस्कृतज्ञैः शिक्षकैः अवधानं दातव्यम् | अन्यच्च, "Battle for Sanskrit" इति पुस्तकं जनेषु महतीं रुचिम् उत्पादयन् अस्ति | संस्कृतेन अस्य पुस्तकस्य अवलोकनं कुत्रचित् प्रकाशितम् अस्ति वा ? न जाने | संस्कृतस्य विषये संस्कृतज्ञानाम् अपेक्षया अन्ये एव अधिकं वदन्ति, लिखन्ति च | तर्हि संस्कृतज्ञाः आधुनिकविषयेषु अधिकं लिखेयुः इति मम गर्धना एव |
अन्ततोगत्वा अहं शास्त्रकाव्यानाम् पठनं च पाठनं व्यर्थाय इति न कदापि वदामि | मम रुचिः ततः एव उत्पन्ना, इदानीम् प्रवर्धमाना अस्ति अपि | प्रौढानाम् आरम्भस्तरीयकक्षासु वयं काकस्य कथाम् पाठयितुम् न शक्नुमः, न हि वेदान्ततत्वान् | मध्ये ये गभीराः, रुचिकराः च विषयाः सन्ति, तेषु वाङ्ग्मयस्य अभावः च संस्कृतमाध्यमेन चर्चायाः अभावः वर्तेते | अचिरात् एतस्य समाधानम् न भविष्यति | संस्कृतज्ञानाम् च अस्मत्सदृशविद्यार्थिनां सर्जनात्मक शक्तेः आवश्यकता अस्ति अत्र | अस्मिन् विषये सम्भाषणसन्देशपत्रिकायाः महत् योगदानम् अस्ति | अत्र एव संस्कृतमाध्यमेन जालतटस्थता (net neutrality), ताडपत्राणम् संरक्षणम् इत्यादीनां दैनन्दिनसमस्यानम् विषये गभीरान् लेखान् अपठम् | इतोपरि क्रीडा, चलनचित्रं , सङ्गीतम् अर्थशास्त्रादिषु अधिकाः लेखाः भवेयुः| एकविंशतितमस्य शताब्देः नाटकान्, कथाः, लेखाः च भवेयुः | यावत् अस्माकम् जीवनेन सह स्निग्धसम्बन्धः न भविष्यति, तावत् भाषायाः वर्धनम् अपि न भविष्यति | पुनः वदामि यत् अचिरात् वयं संस्कृतभाषिताराः न भविष्यामः, परन्तु अस्मिन् विषये अस्माभिः चिन्तनीयम्, मन्दं मन्दम् अग्रे सर्तव्यम् च |