यदा वयं महाभारतकथाम् शृणुमः, तदा वयं चिन्तयामः यत् अयम् इतिहासः केवलं उत्तरभारतीय राज्ञाम् इतिहासः स्यात् | यद्यपि अस्य इतिहासस्य नायकानां नगरी उत्तरभारते अस्ति, तथापि महाभारतकथायाः विपुलत्वम् आभरतम् अस्ति | उदाहरणार्थं, कृष्णः द्वारकानगर्याः राजा आसीत्, यस्य आधुनिकप्रदेशं गुजरातराज्यः स्यात् | द्वारकानगरी आसीत् वा न वा इति प्रश्नस्य उत्तरं वयम् अत्र न दद्मः, परन्तु एतत् तु वयं जानीमः --- नगरस्य उल्लेखः यदस्ति, सः तु द्रुढतया पश्चिमभारतस्य उल्लेखः अस्ति इति | जयद्रथस्य राज्यम् सिन्धुराज्यम् आसीत्, यत्र अद्यतन कराची नगरं अस्ति | तथैव कर्णस्य अङ्गराज्यम्, आधुनिक वङ्गराज्यम् अथवा बेङ्गाल् प्रदेशः अस्ति | अयं प्रदेशः भारतस्य पूर्वसीमायाम् अस्ति | तर्हि दक्षिणभारतीय राज्यानां उल्लेखाः महाभारते सन्ति वा न वा? अवश्यम् सन्ति | अस्य इतिहासस्य तुलनायां रामा यणविषये समानाः प्रश्नाः अस्मासु अधिकतया न उद्भवन्ति | किमर्थं ? रामायणे, रामस्य यात्रा अयोध्यायाः प्रारभ्य लङ्कापर्यन्तं भवति | तर्हि तत्र दक्षिणराज्यानां, रामेश्वरसद्र्शतीर्थानां च प्रामुख्यम् अधिकं वर्तते | अस्तु, महाभारते पाण्ड्यानाम् राज्यस्य उल्लेखान् पश्यामः | अन्याः बहवः उल्लेखाः स्युः | परन्तु, मम अल्पज्ञत्वस्य कारणात् द्वे उदाहरणे एव पश्यामः |
कर्णपर्वणः नवदशोध्याये मलयध्वजपाण्ड्यस्य युद्धकौशलस्य वर्णनम् अस्ति | सः राजा पाण्डवैः सह, कौरवान् विरुध्य युद्धं अकरोत् | सार्धद्विसहस्राधिकवर्षेभ्यः पूर्वम्, पाण्ड्याः तमिळ् सङ्गस्य पोषणं कृतवन्तः | तेषां राजधानी मधुरानगरी आसीत्, यत्र मम पितुः जन्म जातम् |
"सशक्तिप्रासतूणीरानश्वारोहान् हयानपि |
पुलिन्दखसबाह्लीक निषादान्ध्रककुन्तलान् ||
दाक्षिणात्यांश्च भोजांश्च सङ्ग्रामकर्कशान् |
विशस्त्र कवचान् बाणैः कृत्वाचैवकरोत् व्यसून् ||"
अत्र सञ्जयः वदति यत् पाण्ड्यः, प्रासैः, शक्तिभिः, तूणीरैः इत्यादिभिः शस्त्रैः युक्तान् अश्वारूढान् योद्धान्, तेषां अश्वान् च यमसादनम् प्रेषितवान् इति | अपि च अन्यानां राज्यानां सूचनाम् वयं प्राप्नुमः | पुलिन्दस्य (विन्ध्याचल प्रदेशः), खसस्य (मध्य आशिया खण्डं), बाह्लीकस्य (यवन जनैः बाक्ट्रिया इति उक्तं क्षेत्रं), निषादस्य (मध्यभारतीय वनवासिनः जनाः), आन्ध्रस्य (आन्ध्रा एव), दाक्षिणत्यस्य, भोजप्रदेशस्य (मध्यभारतम् ?), योद्धान् सः बाणैः निरायुधान् कृत्वा मारितवान् इति सञ्जयस्य कथनम् |
"द्रष्ट्वा द्रौणिरसम्भ्रान्तमसंभ्रान्तः ततोsभयात् ||"
निर्भयः द्रौणिः (अश्वत्थामन् ) निर्भयं पाण्ड्यं द्रष्ट्वा तस्य सम्मुखम् अकरोत् | भीषणयुद्धस्य अनन्तरं अश्वत्थामना पाण्ड्यः मृत्युं उपगतः |
वनपर्वणः अष्टाशीतितमोsध्याये धौम्यमुनिना युधिष्ठ्राय दक्षिणभारतस्य बहूनाम् क्षेत्राणां, नदीनाम् च पुण्यतीर्थानाम् वर्णनम् भवति |
"कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ |
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि ताम् श्रुणु ||"
पाण्ड्यानाम् राज्ये कुमारी (कन्याकुमारी-- मम जन्मस्थानम् ततः अर्धघण्टादूरे अस्ति) इति पुण्यनगरी अस्ति | अपि च ताम्रपर्णी तिरुनेल्वेलीनगर्या प्रवहति | अस्मिन् अध्याये दक्षिणभारतस्य अन्यानां क्षेत्राणां वर्णनम् अपि अस्ति | भारतीय इतिहासपुराणानाम् सर्वाः कथाः वनपर्वणि उपलभ्यन्ते :)
ज्ञानस्य कोशः अयं इतिहासः |