'हिन्दु' इति शब्दः अस्माकम् वेदेषु अथवा इतिहासपुराणेषु नास्ति | इदानीं यं मतं हिन्दुमतम् इति ज्ञायते, तत् मतं बहवः मतानां सङ्ग्रहम् अस्ति | हिन्दु इति शब्दस्य प्रयोगः प्रथम वारं यवन जनैः च पारसिक जनैः कृतः आसीत् | ये जनाः सिन्धु नद्याः पूर्व दिशायम् अवसन् ते हिन्दवः इति तैः उक्तम् | हिन्दुजीवनस्य आधारः धर्मः | केनापि विश्वासेन धर्मस्य सम्बन्धः नास्ति | वेदान्तिनः ब्रह्मणः विषये वदन्ति, अपि च विश्वासं कुर्वन्ति | शैवाः, जैनाः, वैष्णवाः, सिक्खाः, इति मतेषु सहस्राधिक भेदाः सन्ति | तथापि सर्वे जनाः धार्मिकाः भवितुं शक्नुवन्ति | तदर्थमेव 'धर्मः' च 'मतम्' समानार्थक शब्दे न स्तः | मतं एकस्य स्वाभिप्रायः अस्ति | परन्तु धर्मः तत् नास्ति | तर्हि धर्मः नाम किम् ? "धर्मो विश्वस्य जगतः प्रतिष्ठा" तैत्तिरीय उपनिषदः वाक्यम् अस्ति | यः समस्त लोकान् धारयति सः धर्मः | परन्तु अस्माकम् सामान्य जीवने धर्मः इत्युक्ते किम् ? अस्माकम् जीवनानि कः धारयति? अस्माकम् जीवनानि पुरुषार्थैः निर्धारितानि | सर्वेषां जीवनेषु कामः (मोहः) अस्ति | वयं धनं, शक्तिं, विद्याम्, सर्वं प्राप्तुम् इच्छामः | किन्तु अस्माभिः सर्वाः इच्छाः तोषयितुं न शक्यन्ते | कामसन्तुष्टार्थम् सर्वदा अर्थस्य अभावः अस्ति | यद्यपि अर्थाभावः भवति, तथापि उत्तमम् जीवनम् भवति धर्माचरणेन | तदर्थं अस्माकम् ऋषयः, पितामहाः, प्रपितामहाः, बहुविधान् ग्रन्थान् अरचयन् | वेदाः, इतिहासपुराणाः, जैनागमाः, त्रिपिटकाः, इत्यादयः अस्माकं मार्गदर्शनं कुर्वन्ति | कथं धार्मिकाः भवेम इति एते ग्रन्थाः अस्मान् निर्दिशन्ति | परन्तु केवलं ग्रन्थपूजा न करणिया, अस्माकं विवेकं उपयुज्य सत्यस्य अन्वेषणं करणीयं इति अपि ते स्पष्टतया अवदन् | गीतायाम् कृष्णेन उक्तं ---
"यां इमाम् पुष्पितां वाचं प्रवदन्त्यविपस्चितः |
वेद वाद रताः पार्थ नान्यद् अस्तीति वादिनः ||"
अत्र ग्रन्थ पूजायाः महान्तम् तिरस्कारम् अकरोत् | एताद्र्शानि वचनानि पुनः पुनः पठामः, यत् सत्यं परम् अस्ति, तथा सत्यस्य अवगमनं ज्ञानात् च स्वानुभवात् एव आगच्छति इति |
हिन्दु जीवनस्य विषये ज्ञानम् प्राप्तुम् आजीवनं न पर्याप्तम् | अतः उपनिषदः वाक्येषु आश्रयम् स्वीकृत्य विरमामि |
"सत्यान्न प्रमदितव्यम् | धर्मान्न प्रमदितव्यम् | कुशलान्न प्रमदितव्यम् | भूत्यै न प्रमदितव्यम् | स्वाध्याय प्रवचनाभ्यान्न प्रमदितव्यम् |"
No comments:
Post a Comment