Sunday, June 17, 2018

गजस्य हननम् (आङ्ग्लमूलम् : जार्ज् आर्वेल् (१९३६))

बर्मादेशस्य दक्षिणभागस्य मूल्मेन्-नगरे अहं बहुभिः द्विष्टः आसम्। मम जीवने प्रथमवारं तावान् मुख्यः आसं, यत् बहूनां जनानाम् द्वेषस्य अर्हतां सम्पादितवान्। तदानीं प्रान्तीयारक्षकः आसम्, अपि च यूरोपीयाणं प्रति तत्र एकः निरर्थकः, अप्रयोजकः द्वेषभावः आसीत्। आङ्ग्लशासकान् विरुध्य डमरं कर्तुं तु कस्य अपि धैर्यं न आसीत्, तथापि यदि एका गौरमहिला विपणिम् अगमिष्यत्, तर्हि कश्चन तस्याः उपरि ताम्बूलरसम् अभ्यवमिष्यत्। आरक्षकभटः इत्यतः अहं नगरवासिभ्यः निश्चयेन एकः प्रतिकायः आसम्।  यदा कदापि शक्यं तदा तदा अहं तैः उपाहस्यत। एकदा 'फ़ुट्बाल्' क्रीडाङ्गणे कन्दुकम् अस्पृश्य एकः बर्मीयः यदा मम पादे प्रहारम् अकरोत्, तदा निर्णायकः--सः अपि बर्मीयः--ज्ञात्वा किमपि न प्रवर्तितमेव इतिवत् आचरितवान्। एतत् दृष्ट्वा जनयूथः उच्चैः अट्टहासम् अकरोत्। एतादृश्यः घटनाः नैकदा प्रवृत्ताः। अन्ततोगत्वा उपहसन्ति पीतमुखानि, दूरात् श्रूयमाणानि दुर्वचनानि, इत्यादयः मां क्षान्तेः सीमां प्रापयन् । युवबौद्धभिक्षवः अत्र प्रमुखापराधिनः आसन्। तेषाम् एकमेव कार्यं, नगरवीथीषु स्थित्वा यूरोपीयानाम् उपहासनम् इति मम भाति।

सर्वं दुःखदायकम् आसीत्, यतः आङ्ग्लानां शासनं सम्पूर्णतया दुष्कृतम् आसीत् इति तदानीं निर्णीतवान् आसम् । यावत् शीघ्रम् उद्योगं समाप्य बहिर्गन्तुं शक्यं तावत् शीघ्रं गन्तुम् ऐच्छम्। सैद्धान्तिकदृष्ट्या, व्यक्तं हि निगूढतया, अहं बर्मीयाणं पक्षे, आङ्ग्लानां विरोधे आसम्। मम उद्योगं प्रति मयि यः द्वेषभावः आसीत्, सः वाक्यैः प्रकटयितुम् न शक्यः। एतादृशे उद्योगे एकाधिपत्यस्य कुशासनानि, दुराचरणानि समीपात् द्रष्टुं शक्यते। मृगशालाः इव कारागराः, पशवः इव तत्रत्यबन्धिनः, तत्रत्यदुर्गन्धः, वेत्रदण्डैः व्रणिताः नितम्बाः, एते सर्वे मम मनसि असह्यापराधभावम् अजनयन्। अस्यां द्विविधायां स्थित्वा अहं किमपि अवगन्तुं न शक्तवान्। युवकः, अशिक्षितः च, अहम् एकाकी सन् मम समस्यानां समाधानं प्राप्तुं विवशः। पूर्वीयदेशेशु स्थितस्य प्रत्येकस्य आङ्ग्लाधिकारिणः एषा एव स्थितिः। आङ्ग्लसाम्राज्यं म्रियमाणम् आसीत् इत्यपि न जानामि स्म। आङ्ग्लसाम्राज्यस्यानन्तरं यत् साम्राज्यम् आगमिष्यति, तत् आङ्ग्लसाम्राज्यस्यापेक्षया दुष्टतरं भविष्यति इत्यपि न जानामि स्म। आङ्ग्लशासने मम द्वेषस्य, बर्मीयहिंस्रानाम् उपरि मम क्रोधस्य च मध्ये अहं संमर्दितः आसम्। एकस्मिन् पार्श्वे साम्राज्यस्य उन्मूलनं लोककल्याणाय अत्यावश्यकः इति भावः, अपरस्मिन् पार्श्वे दुष्टबौद्धभिक्षूणां जठरे छुरिकां प्रक्षेप्तुं सुमहती इच्छा। एतादृशी द्विविधा पूर्वीयदेशेषु स्थितेन प्रत्येकेन आङ्ग्लाधिकारिणा अनुभूता। 

एकदा घटना एका घटिता, यया अप्रस्तुततया दुष्टसाम्राज्यानाम् आचरणविशये मम प्रबोधनं जातम्। तस्मिन् दिने नगरस्य अपरपार्श्वस्थस्य आरक्षकालयस्य उपाध्यक्षः माम् आहूय, कस्चन गजः विपणिं प्रविश्य तस्य ध्वंसं कुर्वन् अस्ति इत्युक्त्वा अहं तत्र गत्वा तं रोद्धुं शक्ष्यामि किम् इति अपृच्छत्। मया किं कर्तुं शक्यते इति न ज्ञात्वा तत्र किम् प्रवर्तते इति द्रष्टुं मम अश्वम् आरुह्य प्रस्थितवान्। यद्यपि सा गजस्य हननाय अपर्याप्ता इति जानामि स्म, तथापि भयोत्पादनाय पर्याप्ता इति मत्वा मम ०.४४ विञ्चेस्टर्-भुषुण्डीं स्वीकृत्य गतवान्। अनेके बर्मीयाः मर्गे माम् अवरुध्य गजस्य चेष्टाः श्रावितबवन्तः। एषः पालितगजः यः उन्मत्तः जातः, न तु वन्यगजः। उन्मादस्य सम्भावना यदा भवति, तदा पालितगजाः बद्धाः भवन्ति। तथैव एषः अपि बद्धः आसीत्, किन्तु पूर्वस्यां रात्रौ शृङ्खलाः तृटित्वा अपलायत। तस्य हस्तिपकः एकः एव तं नियन्त्रयितुं शक्नोति स्म। सः गजम् अनुधावितवान्, परन्तु विपरीतदिशि! अनुधाव्य अनुधाव्य स तु नगरात् १२ घण्टादूरं गतवान्। पलायमानः गजः प्रभाते सहसा नगरे दृष्टिगोचरः अभवत्। बर्मीयाणां सकाशे शस्त्राणि न आसन्। नगरमागत्य सकृत् सः कस्यचित् कुटीरस्य उन्मूलनं कृतवान्, एकां धेनुं संहृतवान्, एकस्य फलापणस्य आक्रमणं कृत्वा तत्रत्यानि सर्वाण्यपि फलानि निगलितवान्। प्रातराशं समाप्य नगरस्य अवकरशुद्धिवाहनस्य गमनमार्गं सम्प्राप्तवान्। यदा वाहनचालकः वाहनात् कूर्दित्वा प्राणरक्षणय अधावत्, तदा वाहनं विलुण्ठयित्वा तदुपरि हिंस्राः कृतवान्। 

यस्मिन् सहनिवासे गजः दृष्टः, तत्र बर्मीयारक्षकोपाध्यक्षः तस्य भारतीयभटैः सह मम प्रतीक्षां कुर्वन् आसीत्। सहनिवासस्य दुःस्थितिः आसीत्। निर्धनाः कस्यचित् शैलस्य रोधसि शिथिलानि कुटीराणि निर्मीय वसन्ति स्म। तदानीम् वर्षाऋतोः प्रारम्भः आसीत् इति संस्मरामि। आकाशे मेघाः, सर्वथा दुर्दिनानि, सर्वत्र प्रक्लिन्नता इति स्थितिः। गजस्य विषये जनान् प्रष्टुं प्रारब्धवन्तः। सामान्यतया यथा भवति, तथैव विश्वसनीयाः वार्ताः न प्राप्तवन्तः। घटनायाः यावत् समीपं अगच्छन्, जनानां कथनं तावत् अस्पष्टम् अभवत्।  पूर्वीयदेशेषु सर्वदा एवं भवति। घटनायाः यावत् समीपं गच्छामः, जनानां कथनमपि तावत् अस्पष्टं भवति। केचन गजः एवं गतवान् इति अवोचन्, केचन साक्षात् विपरीत दिशि गतवान् इति अवोचन्। केचन तु "गज: वा? कः गजः?", इति अवदन्। यदा एषा कथा सम्पूर्णतया विसङ्गता इति निर्णीतवान्, तदा दूरात् उच्चध्वनिः श्रुता। एका दण्डधारिणी वृद्धा "इतः गच्छ रे वत्स ! गच्छ !", इति शब्दयन्ती, बालान् भीषयन्ती एकस्य कुटीरस्य कोणात् मार्गम् प्राविशत्। पृष्टतः अन्यमहिलाः ताम् सदुःखम् अन्वसरन्। बालाः दर्शनाय अनर्हं किमपि अपश्यन् इति निदर्शनम् आसीत्। कुटीरं वितीर्य अपश्यम्। शवः एकः मृत्तिकायां लग्नः आसीत्। भारतीयः, भारिकः, कृष्णः, अन्तरा नग्नः, केभ्यश्चित् निमेषेभ्यः पूर्वमेव मृतवान् आसीत्। गजः सहसा मार्गात् कुटीरस्य पार्श्वं आगत्य तुण्डेन गृहीत्वा तस्य पृष्टे पादं स्थापयित्वा तं भूमौ पाक्षिपत् इति मम अनुमानम्। वर्षाकालः इत्यतः भूमिः क्लिन्ना, कोमला च आसीत्। तस्य शिरः एकपादं यावत् मृत्तिकायां लग्नः आसीत्। सः हस्तौ प्रसारयन्, जठरे शयानः, तथापि आकाशं पश्यन्, दन्तान् दर्शयित्वा हसन् आसीत्। असह्यया पीडया उत्पन्नः हासः आसीत्। तादृशी पीडा, या महाजन्तुना सम्मर्दनात् उद्भवति। मृताः शान्तियुक्ताः दृश्यन्ते इति कदापि मा वदतु। प्रेताः सर्वदा पिशाचाः इव दृश्यन्ते। मृतस्य पृष्ठभागस्य चर्मः गजस्य पादेन कुक्कुटस्य चर्मः इव शुद्धतया निष्कासितः। 

प्रेतं दृष्ट्वा अञ्जसा महाभुषुण्डीम् आनेतुं मम भृत्यं प्रेषितवान्। पूर्वमेव अश्वम् आरक्षकालयं प्रति प्रेशितवान् आसं, यतः सः गजं घ्रात्वा भीत्या मां मा उत्सृजेत्। भृत्यं गजभुशुण्डीं, पञ्चगोलिकाः च आनयत्। अत्रान्तरे गजः बर्मीयैः अधः स्थिते कस्मिन्श्चित् केदारे दृष्टः। यदा अहम् अग्रे सृतवान्, प्रायशः सहनिवासस्य सर्वे निवासिनः स्वकुटीरेभ्यः बहिरागत्य माम् अनुसर्तुं प्रारभन्त। ते मम भुषुण्डीं दृष्टवा अहं गजस्य हननं करिष्यामि इति उत्साहेन परस्परं शब्दयन्तः आसन् । यावत् व्यालः तेषां गृहाणां ध्वंसं कुर्वन् आसीत्, तावत् ते गजस्य विषये ईषदपि उत्साहं न दर्शितवन्तः। किन्तु व्यालस्य मृत्योः सम्भावना यदा उदिता, तदैव तेषु कुतूहलं जातम्। एकरीत्या तेभ्यः एतत् सर्वम् विनोदनम् आसीत्। न केवलं बर्मीयेभ्यः, कस्मैचित्आङ्ग्लयूथाय अपि एतत् विनोदनमेव अभविष्यत्। ते गजस्य मांसमपि इष्टवन्तः। वस्तुतः प्राणरक्षणय एव भुषुण्डीं धृतवान् आसम्। गजं हन्तुमेव नैच्छम् इत्यतः क्वचित् आकुलः अभवम्। यःकोपि वा भवतु, जनयूथस्य अनुगमनेन आकुलः भवेदेव। शैलम् अवरुह्य, मूर्ख: इव अनुभवन् केदारं प्रति गच्छन् आसम्। मम पृष्ठतः जनसम्मर्दः नितरां वर्धमानः आसीत्। शैलस्य अधोभागे कुटीराणाम् अग्रे महामार्गः एकः आसीत्। मार्गस्य अन्यस्मिन् पार्श्वे अनुप्तसस्यः, अकृष्टः, केवलं वर्षया क्लिन्नः केदारः आसीत् । गजः मार्गात् अष्टपादमिते दूरे जनयूथस्य आगमनम् अविलक्ष्य स्थितवान्आसीत्।  तस्य वामभागः अस्माकम् पुरतः आसीत्। घासगुच्छान् उन्मूल्य सुचीकर्तुं जानुनोः ताडयित्वा मुखं सम्पूरयन् आसीत्। 

अहं मार्गपर्यन्तं गत्वा स्थगितवान्। गजदर्शनस्य समनन्तरमेव तस्य उपरि प्रहारं न करवाणि इति ज्ञातवान् । गजस्य इव महामृगस्य हननं अति गभीरम् अस्ति। कस्यचित् बहुमूल्यस्य बृहतः यन्त्रस्य नाशनम् इव अस्ति। अतः शक्यं चेत् गजस्य हननं न करणीयम्। दूरे स्थित्वा शान्ततया खादन् गजः धेनुः इव अहिंस्रः भासते स्म। तदानीम् अचिन्तयम्, इदानीम् अपि चिन्तयामि, यत् तस्य उन्मादाभिसरः निर्गच्छन् आसीत् इति। तथा चेत् सः शान्ततया इतस्ततः अचलिष्यत्, तस्य पालकः प्रत्यागत्य तम् अग्रहिष्यत्। यथोक्तम्, अहं तं हन्तुं नैच्छम्।अतः किञ्चित् कालाय तं प्रेक्ष्य, यदा सः पुनः उन्मत्तः न भविष्यति इति सुनिश्चितं भवति, तदा तं तत्रैव त्यक्त्वा गृहं गमिष्यामि इति निर्णीतवान्। परन्तु समनन्तरमेव मम पृष्टतः स्थितं जनसङ्कुलम् अपश्यम्। तत् नितराम् बृहत्, प्रतिक्षणं वर्धमानम् आसीत्। प्रायशः द्विसहस्राधिकप्रतीक्षमाणाः जनाः आसन्। दुश्चदवस्त्राणाम् उपरि पीतमुखानां सागरम् अपश्यम्। सर्वे गजस्य हननं निश्चयेन भविष्यति इति विश्वसन्तः, सन्तोषेण मार्गमाच्छाद्य स्थितवन्तः आसन्। यथा दर्शकाः ऐन्द्रजालकं पश्यन्ति, तथैव ते अपि माम् अपश्यन्। तस्य हस्ते यथा मायादण्डः भवति, तथा मम हस्ते भुषुण्डी आसीत्। ते मां न इष्टवन्तः, यतः अहम् आङ्ग्लशासकः आसम्। परन्तु, भुषुण्डीधरः सन्, अहं किञ्चित् कालाय द्रष्टुं योग्यः अभवम्। तान् दृष्ट्वा मया गजस्य हननं करणीयमेव भवेदिति मनसि अस्फुरत्। 

द्विसहस्रजनानाम् आकाङ्क्षाः मां नितराम् अग्रे नोदयन्तः आसन्। पूर्वीय देशेषु पश्चिमगौराङ्गाणां शासनम् कियत् व्यर्थम् इति तदा ज्ञातवान्। द्विसहस्रनिरायुधजनानाम् पुरतः भुषुण्डीं धृत्वा आपाततः सेनापतिः इव स्थितवान् आसम्। वस्तुतः अहं पीतमुखजनानाम् आकाङ्क्षया तत्र प्रक्षिप्ता पाञ्चालिका इव आसम्। यदा गौराङ्गः उपद्रवी भूत्वा अन्येषां स्वातन्त्र्यम् अपहरति, तदा तस्य स्वातन्त्र्यमपि नष्टं भवति। सः सामान्यः 'साहिब्' भवति, यः न कदापि दोषं कर्तुम् अर्हेत्। सर्वदा स्थिरतया समस्यानाम् समाधानम् कुर्यात्। तस्य जीवितं देशिकानाम् चित्ताकर्षणे लग्नं भवति। यदा भुषुण्डीम् आनेतुम् आदिष्टवन् तदानीमेव गजं हन्तुं विवशः अभवम्। एतावत् दूरमागत्य विना हननं यदि निरगमिष्यं तर्हि द्विसहस्राधिकदेशजनानाम् उपहासपात्रम् अभविष्यम्। तत् कृत्यं मम दुर्बलतायाः प्रतीकः अभविष्यत्। कथम् देशीयानाम् उपहासपात्रं न भवामः इति सङ्घर्षे एव पूर्वीय देशेषु स्थितानां आङ्ग्लाधिकारीणां जीवनानि लुप्ताः अभवन्। 

परन्तु शान्ततया घासगुच्छान् अगलन्तं गजं अहं हन्तुं न इष्टवान्। यथा वृद्धाः महिलाः विना चिन्तनं ताम्बूलं चर्वन्ति, तथैव एषः खादने लग्नः आसीत्। यद्यपि अहं कदापि गजहननं न कृतवान् आसं, तदानीं मृगाणां  मारणे मम कापि जुगुप्सा नासीत्। सर्वे जीविनः समानाः न भवन्ति। बृहत्तरस्य मृगस्य मारणं कथञ्चित् क्रूरतरं भवति। हस्तिपकस्य स्थितिरपि चिन्तनार्हा। जीवन् गजः हस्तिपकाय न्यूनातिन्यूनं शत-"पौण्ड्"-नाणकानि अर्जयितुं शक्नोति। किन्तु मृतस्य मूल्यं केवलं दन्तयोः मूल्यमेव। अधिकतमं मूल्यं प्रायः पञ्चनाणकानि भवेत्। परन्तु त्वरया मया किमपि कर्तव्यं आसीत्। वलित्वा पृष्ठे स्थितान् अनुभविनः बर्मीयान् गजस्य आचरणविषये अपृच्छम्। ते सर्वे समानं विचारं प्राकटयन्। गजात् दूरे भवामः चेत् सः विमुखः भवति, परन्तु समीपं गच्छामः चेत् अभिधावेत्। किम् करवाणि इति स्पष्टमासीत्---गजस्य समीपं गच्छानि। प्रायः २५ पाददूरे स्थित्वा पश्यानि। सः मां अभ्यधावत् चेत् अहं गोलिकाभिः तं सम्हराणि। नोचेत् पालकस्य आगमनपर्यन्तं तम् तत्रैव त्यक्त्वा गन्तुम् शक्नुयाम्। तदानीम् एवं न आचरिष्यामि इत्यपि मयि स्पष्टमासीत्। भुषुण्डीप्रहारे निपुणः न आसम्, अपि च प्रत्यस्मिन्पदे मम पादौ पङ्के लग्नौ भवतः स्म। एकया गुलिकया न समहरिष्यम् चेत् लोकयानचक्रेण परिपिष्टः मण्डूकः इव मम स्थितिः भविष्यति। तथापि मम विषये न चिन्तयामि स्म। मम मनसि केवलं पृष्ठे स्थित्व माम् अवलोकयन्ति पीतमुखानि आसन्। मुखेभ्यः मम मनसि असामान्या भीतिः अजायत, या यदि एकाकी अस्थास्यम्, तर्हि न अभविष्यत्। गौराङ्गः निजवासीनाम् पुरतः भीतिं दर्शयितुं न अर्हति। यतः तेषां दृष्ट्यां सः भयं अनुभवितुमपि न शक्नोति।

अकार्यं किमपि भवति चेत् द्विसहस्राधिकबर्मीयाः गजेन अनुधाव्यमानं, परिपिष्टं माम् द्रक्ष्यन्ति। कुटीराणां समीपे दृष्टस्य भारतीयस्य शवस्य परिस्थितिः इव मम अपि भविष्यति। यदि एवं प्राभविष्यत्, तर्हि केचन बर्मीयाः अहसिष्यन्। गौराङ्गः न कदापि व्यङ्ग्यस्य पात्रं भवितुम् अर्हति। अतः एकः एव विकल्पः आसीत्। सम्यक् लक्षयितुं मार्गे शरीरं प्रसार्य भुषुण्ड्याम् गुलिकाम् आरोपितवान्। जनसमूहः बहुशान्तः, प्रतीक्षमाणः च अभवत्। नाटकात् पूर्वं आवरणस्य अपसरणाय प्रतीक्षमाणानां रसिकानाम् मौनम् यथा भवति तादृशं मौनम् आपतितम्। अनततोगत्वा रुचिकरं किमपि प्रचलिश्यत्येव। भुषुण्डी अत्युत्तमा जर्मनीयभुषुण्डी आसीत्। गजस्य हननाय गुलिका एकं कर्णं प्रविष्य अपरस्मात् कर्णत् बहिः आगन्तव्या इति तदा मया न ज्ञातं। एतत् सुकरम् आसीत् यतः गजस्य कर्णः मम दृष्टिपथे एव आसीत्। परन्तु अहं साक्षात् कर्णम् अलक्ष्यीकृत्य किञ्चिदग्रे प्रहार्तुं सज्जः अभवम्। अग्रैव तस्य मस्तिष्कः भवेदिति मम ऊहा आसीत्। 

यदा प्रहृर्तवान्, तदा विस्फोटं न शृतवान्, घट्टनमपि न प्रापतवान्। मौनं, स्थैर्यं एव अनुभूते स्म। तत् मौनं बर्मीयाणाम् आनन्दपूर्णेन कोलाहलेन भग्नमभवत्। सकृत् गजस्य आचरणे परिवर्तनम् दृष्टम्। यद्यपि गुलिका गजस्य समीपं प्राप्तुम् अपि समयः अपर्याप्तः इति मम अभात्, अञ्जसा गजः क्षीणः, सङ्कुचितः, अतीव वृद्धः इव अभवत्। पञ्चक्षणानि यावत् सः इतस्ततः दोलयन् मुखात् लालां स्रावयन् आसीत्। तस्य वीर्यस्य सम्पूर्णनष्टम् अभवत्। सहस्रवर्षीयः गजः इव दृश्यते स्म। तस्य अग्रजानुनोः पतनानन्तरं द्वितीयां गोलिकां चालितवान्। द्वितीयं प्रहारं प्राप्य सः पुनः चतुर्षु पादेषु अतिष्ठत्। तस्य मुखम् नितरां संस्रमानः आसीत्। तृतीयवारं गोलिकां चालितवान्। तया तस्य संनिपातः अभवत्। तस्य शरीरं विद्युता धर्षितम् इव अभवत्। पादानाम् अवशिष्टा याकापि शक्तिः आसीत्, सा सम्पूर्णतया विलुप्ता। पृष्ठपादयोः व्लीनयोः जातयोः सत्योः तस्य अग्रभागः उपरि उपरि अगच्छत्। तुण्डः तरुः इव आकाशं प्रति अगच्छत्। तत् दृश्यं महान् शैलस्य पतनम् इव आसीत्। प्रप्रथमवारम्, अन्तिमवारं च, सः क्रोञ्चितवान्, वलित्वा जठरं मम दिशि प्रसार्य अधः अपतत्। दूरे स्थितेन मया अपि भूमिकम्पः अनुभूतः। तादृशः शब्दः, तादृशः विशालाकारः तस्य। 

अहम् उत्थितवान्। तावत् बर्मीयाः मृत्तिकायां गजं प्रति धावन्तः आसन्। सः पुनः न उत्थास्यति इति सुनिस्चितम् आसीत, परन्तु सः मृतः न आसीत्। असह्यया पीडया उच्चश्वासोच्छ्वासं कुर्वन् आसीत्। दूरात् पर्वताकारशरीरस्य उत्थानपतनानि दृष्टानि। समीपं गत्वा तस्य विस्तृतां, उद्घाटितां, पाटलवर्णियां गुहाकण्ठीम् अपश्यम्। बहुकालं मरणस्य प्रतीक्षाम् अकरवम्, परन्तु तस्य श्वासने क्षीणता न दृष्टा। अतः तस्य हृदयं कुत्र भवेदिति ऊहां कृत्वा मम अन्तिमगुलिकाद्वयं चालितवान्। स्निग्धः रक्तः तस्य शरीरात् उत्सवत् पावहत्। तथापि सः न मृतः। समीपात् गुलिकाप्रहारं प्राप्य शरीरकम्पनमात्रमपि नाभवत्। पाडासहितश्वासस्य प्रवर्तनमेव आसीत्। मम मनसि अनुकम्पा, जुगुप्सा च। कथञ्चित् पीडायाः निवारणम् भवतु इति मम लघुभुषुण्डीम् आनेतुम् आदिश्टवान्। यावत्यः गुलिकाः आसन्, एकस्याः अनन्तरम् एका इति तासां सर्वासां प्रयोगम् अकरवम्। तथापि सः यमसदनं न प्राविशत्। भूलोकस्य, यमलोकस्य च मध्ये पीडाग्रस्तस्य, जीवितुं शक्तिहीनस्य, मर्तुमपि शक्तिहीनस्य तस्य दुःखयुक्ताः उच्चश्वासाः घट्याः चलनमिव निरन्तरतया प्रावर्तन्त। अन्ततोगत्वा मम सनहशक्तेः सीमाम् अतिक्रम्य, ततः निरगच्छम्। 

मम गमनात् अर्धघण्टानन्तरं सः मृत्युम् उपगतः इति मया शृतम्। मम गमनात् पूर्वमेव बर्मीयाः छुरिकाः, पात्राणि आनयन्तः आसन्। माध्याह्नं यावत् गजास्थीनि एव अवशिष्टाः आसन्। समनन्तरं हि गजस्य हननविषये अनन्ताः चर्चाः अभवन्। गजस्य स्वामी अतीव कृद्धः अभवत्। सः भारतीयः, पराधीनः इत्यतः किमपि कर्तुं असमर्थः। एकदृष्ट्या भारतीयभारवाहकस्य हत्या मम पक्षं प्राबलयत्। न्यायाधीशस्य दृष्ट्या अहं सत्कार्यमेव अकरवम्। स्वामी उन्मत्तं गजं नियन्त्रयितुं न शक्नोति चेत् गजः उन्मत्तः कुक्कुरः इव मारणीयः इति तस्य मतम्। अहमपि भारवाहकः गजेन मारितः इति मुदितः अभवम्, येन अहं निर्दुष्टः अभवम्।  यूरोपीयाणम् अभिप्रायेषु पक्षद्वयं आसीत्। अहं सत्कायमेवे कृतवानिति वृद्धाः अवोचन्। युवकाः गजस्य मूल्यं तृणप्रायस्य "कूली"-जनस्य अपेक्षया सर्वथैव अधिकं अस्ति, अतः तस्य हननं लज्जावहः इति उक्तवन्तः। बर्मीयाः मां मूर्खं न मन्येरन् इति एकेनैव कारणेन अहं गजं सम्हृतवान् इति कस्यापि प्रबोधनं जातम् वा इति बहुधा चिन्तयामि।